Book Title: Satthisay Payaranam
Author(s): Hargovinddas
Publisher: Atmaram Sharma

View full book text
Previous | Next

Page 12
________________ सहिसयपयरणं । अर्हदाशारहितं यथा स्यादेवं देवद्रव्यं धान्यसंग्रह-क्षेत्रादिविधान-कल्पपाल-मात्सिकादिपापलोककलान्तरदानाद्यविधिना वर्धयन्तोऽपि मूढा भवाब्धौ ब्रुडन्ति । किंविधाः । मोहेन मोहनीयकर्मणाऽज्ञानिनो निर्विवेकाः । शुभस्थानेष्ववञ्चकवणिगादिषु कलान्तरप्रयोगं करोति जिनद्रव्यवृद्धये विवेकवानिति । तदुक्तम् “वेड्ढेइ य जिणव्वं विसुद्धभावो सयाकालं" इति। अमुं चोपायं विना जिनद्रव्यवृद्धिर्न भवति। तस्मादेवं वृद्धिः कर्तव्या पूर्वोक्तप्रकारेणेति षष्टिशतबृहवृत्तौ ॥१२॥ कुग्गहगहगहियाणं मुद्धो जो देइ धम्मउवएसं । सो चम्मासीकुक्कुरवयणम्मि खिबेइ कप्पूरं ॥ १३ ॥ [ कुग्रहग्रहगृहीतानां मुग्धो यो ददाति धर्मोपदेशम् । स चर्माशिकुर्कुरवदने क्षिपति कर्पूरम् ॥ ] कुग्रहः स्वमतिकल्पितस्थापनं स एव ग्रहो भूतादिस्तेन गृहीतास्तेषां मूढो यो ददाति धर्मोपदेशं शुद्धधर्मप्ररूपणालक्षणम् , स चर्माशिकुर्कुरवदने क्षिपति कर्पूरमिव । तदुक्तम् उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥" रोसोवि खमाकोसो सुत्तं भासंतयस्स धन्नस्स । उस्सुत्तेण खमावि य दोस महामोहआवासो ॥१४॥ [ रोषोऽपि क्षमाकोषः सूत्रं भाषमाणस्य धन्यस्य । उत्सूत्रेण क्षमापि च दोषो महामोहावासः ॥ ] रोषोऽपि, इह 'अपि' संभावने, स च संभाव्यते, प्रायः प्रावचनिकानां न तदुदयः, क्वचिदयोग्यदेशनानिषेधस्खलितचोदनादौ कृत्रिमः स चेद् भवति, सोऽपि तमाकोश एव । कस्य ?। सूत्रसंवादि भाषमाणस्य धन्यस्य । उत्सूत्रेण क्षमापि च दोषो दूषणम् । विभक्तिलोपोऽत्र । कि० महामोहस्यावास इव ॥१४॥ एक्कोवि न संदेहो जे जिणधम्मेण अस्थि मुक्खसुहं । तं पुण दुन्विन्नेयं अइउक्कडपुन्नरहियाणं ॥ १५ ॥ १ वर्धयति च निनद्रव्यं विशुद्धभावः सदाकालम् ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56