Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 18
________________ [१२] -: म्यन्ते । तदेतैः षभिः कोशैर्घटमानं शरीरं विनश्वरतया प्रत्यक्षतो दृश्यते । तथा च जीवतः एव मुक्तिरिति कथंकारं संजाघटीति । इति चेदुच्यते । पाट्कौशिकस्य देहस्यास्थिरस्वमस्तु नामः । तथाऽपि पारदाभ्रकपदाभिलप्यमाना या हरगौरीसृष्टिस्तत्संयोगजनितस्य शरीरस्य नित्यत्वमेव । हरसृष्टिः पारदः । गौरीसृष्टिस्त्वभ्रकः । तदुक्तं रसार्णवे अभ्रकस्तव बीजं बीजिं तु मम तु पारदः । इति । शिवगौरीसंवादोऽयम् । अत एव चेश्वरशररिसंभूतत्वेन पारदो रसो रसेश्वर इत्युच्यते । तादृशस्य रसेश्वरस्य सेवनेन तत्संयोगजन्यस्य नित्यशरीरस्य प्राप्तौ सत्यां षट्कौशिकस्यास्थिरस्यापि देहस्य न परित्यागो भवति । प्रत्युत हरगौरीसृष्टिजशरीरसंबन्धेन तत्र दिव्यत्वं दाढ्यै च संपद्यते । यथा पारद ( परिस) संबन्धेन लोहमपि सुवर्णं भवति तद्वत् । तदुक्तं रसहृदये— ८ + ये चात्यक्तशरीरा हरगौरीसृष्टिजां तनुं प्राप्ताः । मुक्तास्ते रससिद्धा मन्त्रगणः किंकरो येषाम् ॥ इति । एवं च पारदरससंबन्धेन पाटकौशिकस्य शरीरस्य लोहस्येव सुवर्णत्वे दिव्यत्वे स्थिरत्वे च संपाद्यमाने जीवत एव मुक्तिरित्युक्तिः सामीचीन्येन संगच्छते । तथा च दर्शनकारैः प्रदर्शिता जीवन्मुक्तिः करामलकवत्प्रत्यक्षा पारदपदाभिधेयरसेश्वरसेवनेन भवतीति जीवन्मुक्ति मनङ्गीकुर्वाणा रामानुजप्रभृतयोऽज्ञानिन एवेति मन्तव्यम् । अत एवं विद्यारण्यैस्तिक दर्शनप्रदर्शनसमये सर्वतो जघन्यत्वेनाऽऽदौ रामानुजदर्शनं निर्दिष्टम् । तदपेक्षया चैतदर्शनस्य श्रेष्ठयाद्रामानुजदर्शनोत्तरं दर्शनचतुष्टयव्यवधानेन रसेश्वरदर्शनं निर्दिष्टमिति मन्ये । इति रसेश्वरदर्शनस्वरूप संक्षेपः । औलक्यदर्शनमेव वैशेषिकदर्शनं कण ददर्शनमिति चोच्यते । अक्षपाददर्शनं च नैयायिकदर्शनमित्यभिधीयते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनाख्यपञ्चावयवं वाक्यं न्यायः । तं विदन्ति ते नैयायिकास्तेषां दर्शनामित्यर्थः । दर्शनद्वयेऽपि तत्त्वज्ञानान्निःश्रेयसाधिगम इत्युक्तम् । निःश्रेयसं मोक्षः । तस्याधिगमः प्राप्तिरित्यर्थः । मोक्षश्चाऽऽत्यन्तिकी दुःखनिवृत्तिः । सा च तत्त्वज्ञानादनन्तरमेव न जायते । किंतु तत्त्वज्ञानेन दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानां मध्ये उत्तरोत्तरस्य नाशे सति तत्पूर्व भाविदोषादीनां नाशात्क्रमेणापवर्गः सिध्यति । तदुक्तम् — दुःखजम्मप्रवृत्तिदोष मिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग इति । मोक्षसाघनीभूतज्ञानविषयामि तत्वानि च प्रमाणप्रमेयसंशयेत्यादीनि गौतमेन षोडशोक्तानि । 1

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 220