Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
.
सांख्यकारिका ।
विविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमायादि ॥४॥ प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातं
देवदत्तः कौमारयौवनादिषु । इतरेतराभाव: पटे घटाभावः । अत्यन्ताभावः खरविषाणबन्ध्यासुतखपुष्पवदिति सर्वाभावः प्रध्वंसाभावो दग्धपटवदिति । यथा शुष्कधान्यदर्शनाद दृष्टेरभावोऽवगम्यते । एवमभावोऽनेकधा ॥ प्रतिभा यथा । दक्षिणेन विन्ध्यस्य सह्यस्य च यदुत्तरम् । पृथिव्यामासमुद्रायां स प्रदेशो मनोरमः । एवमुक्ते तस्मिन् प्रदेशे शोभनाः गुणाः सन्तौति प्रतिभोत्पद्यते प्रतिभान्वाससंज्ञानमिति ॥ ऐतिहां यथा । ब्रवीति लोको यथात्र वटे यक्षिणी प्रतिवसतीति एव ऐतिह्यम् ॥ उपमानं यथा । गौरिव गवयः समुद्र इव तड़ागम् । एतानि षट् प्रमाणानि त्रिषु दृष्टादिष्वन्तर्भूतानि । तत्वानुमाने तावदर्थापत्तिरन्तर्भूता । सम्भवाभावप्रतिभेतिह्योपमाश्चाप्तवचने । तस्मात्रिष्वेव सर्वप्रमाणसिद्धत्वात् त्रिविधं प्रमाणमिष्ट तदाह तेन विविधेन प्रमाणेन प्रमाणसिडिर्भवतौति वाक्यशेषः । प्रमेयसिद्धिः प्रमाणादि । प्रमेयं प्रधानं बुडिरहङ्कारः पञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्च महाभू तानि पुरुष इति एतानि पञ्चविंशति तत्त्वानि व्यक्ताव्यक्तज्ञान्युच्यन्त े । तत्र किञ्चित् प्रत्यक्षेण साध्यं किञ्चिदनुमानेन किञ्चिदागमेनेति त्रिविधं प्रमाणमुक्तं तस्य किं लक्षणमेतदाह
॥ ४ ॥
प्रतिविषयेषु श्रोत्रादीनां शब्दादिविषयेषु अध्यवसायो दृष्टः प्रत्यचमित्यर्थः । त्रिविधमनुमानमाख्यातं शेषवत् पूर्ववत् सामान्यतो दृष्टं चेति । पूर्वमस्यास्तीति पूर्ववद् यथा मेघोन्नत्या
For Private and Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59