Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। एष प्रत्ययसर्गो विपर्यायाशक्तितुष्टिसियाख्यः । गुणवैषग्यविमर्दात्तस्य च भेदास्तु पञ्चाशत् ॥४६॥ यदिव्यं मानुषं सुखमनुभवाम्येतस्माद्राजसादागात् संसारो भवति । तथा ऐखादविघात एतदैश्वर्यमष्टगुणमणिमादियुक्त तस्मादैश्वर्यानिमित्तादविघातो नैमित्तिको भवति ब्रह्मादिषु स्थानेष्वैश्वय्ये न विहन्यते। किञ्चान्यहिपर्य याहिपर्यासः तस्याविघातस्य विपर्यासो विधातो भवत्यनैवात् सर्वत्र विहन्यते। एष निमित्तैः सह नैमित्तिकः षोड़शविधी व्याख्यातः स किमात्मक इत्याह ॥ ४५ ॥ ___ यथा एष षोड़शविधो निमित्तनैमित्तभेदो व्याख्यात एष प्रत्ययसर्ग उच्यते। प्रत्ययो बुद्धिरित्यक्ताऽध्यवसायो बुद्धिर्धर्मो ज्ञानमित्यादि स च प्रत्ययसर्गचतुर्धा भिद्यते विपर्य याशक्तितुष्टिसियाख्याभेदात्। तत्र संशयोऽज्ञानम्। यथा कस्य. चित् स्थाणुदर्शने स्थाणुरयं पुरुषो वेति संशयः। अशक्तियथा। तमेव स्थाणु सम्यग् दृष्ट्वा संशयं छत्तु न शक्नोतीत्यशक्तिः। एवं टतोयस्तुट्याख्यो यथा। तमेव स्थाणु ज्ञातु संशयितु वा नेच्छति किमनेनास्माकमित्येषा तुष्टिः । चतुर्थः सिधाख्यो यथा । आनन्दितेन्द्रियः स्थाणुमारूढां वलिं पश्यति शकुनि वा तस्य सिद्धिर्भवति स्थायरयमिति। एव. मस्य चतुर्विधस्य प्रत्ययसर्गस्य गुणवैषम्यविमर्दै तस्य भेदास्तु पञ्चाशत् योऽयं सत्वरजस्तमोगुणानां वैषम्यो विमर्दः तेन तस्य प्रत्ययसर्गस्य पञ्चाशद्भेदा भवन्ति तथा कापि सत्वमुत्कटं भवति रजस्तमसो उदासीने कापि रजः कापि तम इति भेदाः कष्यन्त ॥ ४६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59