Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। धर्मेण गमनमूचं गमनमधस्ताद्भवत्यधर्मेण । ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ ४४ ॥ वैराग्यात्प्रकृतिलयः संसारो भवति राजसाद्रागात् ऐश्वर्यादविघातो विपर्ययात् तहिपर्यासः ॥४५॥ माटजा इत्युक्ताः शुक्रशोणितसंयोगे विवृद्धिहेतुकाः कललाद्या बुद्धदमांसपेशीप्रभृतयः तथा कौमारयौवनस्थविरत्वादयो भावाः अनपानरसनिमित्ता निष्पद्यन्त अत: कार्यायिण उच्यन्त अबादिविषयभोगनिमित्ता जायन्ते । निमित्तनैमित्तिकप्रसङ्गेनेति यदुक्तमत्रोच्यते ॥ ४३ ॥ ___ धर्मेण ममनमूद्ध धर्म निमित्त कवोर्डमुपनयति ऊ मि. त्यष्टौ स्थानानि ग्टद्यन्त तद्यथा। ब्राह्मं प्राजापत्य सौम्यमैन्द्र गान्धर्व याक्षं राक्षसं पैशाचमिति तत् सूक्ष्मं शरीरं गच्छति पशुमृगपक्षिसरीसृपस्थावरान्त वधर्मो निमित्तम । किञ्च ज्ञानेन चापवर्गश्च पञ्चविंशति तत्त्वज्ञानं तेन निमिन . नापवर्गो मोक्ष: ततः सूक्ष्म शरीरं निवर्त्तते परमात्मा उच्यते। विपथ्यं यादिष्यते बन्ध अज्ञानं निमित्तं स चैष नैमित्तिकः प्राकृतो वैकारिको दाक्षिणिकश्च बन्ध इति वक्ष्यति पुरस्ताद्यदिदमुक्तं प्राकृतेन च बन्धेन तथा वैकारिकेण च । दक्षिणाभिस्ततौयेन बद्धो नान्येन मुच्यते। तथाऽन्यदपि निमित्तम् ॥ ४४ ॥ ___ यथा कस्यचिदैराग्यमस्ति न तत्त्वज्ञानं तस्मादज्ञानपूर्वा वैराग्यात् प्रक्ततिलयो मृतोऽष्टासु प्रकृतिषु प्रधानबुड्यहङ्कारतन्मात्रेषु लीयते न मोक्षः ततो भूयोऽपि संसरति तथा योऽयं राजसो रागः यज़ामि दक्षिणां ददामि येनामुमिन् लोकेऽत्र For Private and Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59