Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ सांख्यकारिका। चिव यथाश्रयमते स्थाण्वादिभ्यो यथा विना छाया तहदिना विशेषैनं तिष्ठति निराश्रयं लिङ्गम् ॥४१॥ पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन । प्रकृतेर्विभुत्वयोगान्नटवद् व्यवतिष्ठते लिङ्गम् ॥४२॥ पुनः सर्गकाले संसरति तस्माल्लिङ्गं सूक्ष्मम्। किं प्रयोजनेन त्रयोदशविधं करणं संसरतीत्येवं चोदिते सत्याह ॥ ४० ॥ चित्रं यथा कुड्याश्रयमृते न तिष्ठति स्थागवादिभ्यः कोल. कादिभ्यो विना छाया न तिष्ठति तैविना न भवत्यादिग्रहणाद्यथा मैत्य विना नापो भवन्ति शैत्य वाऽद्धिविना। अग्निरुष्ण विना वायुः स्पर्श विना आकाशमवकाशं विना पृथि. वो गन्धं विना तहदेतेन दृष्टान्त न न्यायेन विना विशेषेरवि. शेषै स्तन्मात्र विना न तिष्ठति। अथ विशेषभूतान्यु च्यन्त शरोरं पञ्चभूतमयं वैशेषिणा शरीरेण विना क लिङ्गस्थानं चेति का एकदेहमुमति तदेवान्यमाश्रयति निराश्रयमाश्रय रहितं लिङ्ग त्रयोदशविधं करणमित्यर्थः । किमर्थं तदुच्यते ॥४१॥ __पुरुषार्थः कर्तव्य इति प्रधान प्रवर्तते स च विविधः शब्दाद्युपलब्धिलक्षणो गुणपुरुषान्तरोपलब्धिलक्षणश्च । शब्दा. युपलब्धिब्रह्मादिषु लोकेषु गन्धादिभोगावाप्तिः। गुणपुरुषान्तरोपलब्धिर्मोक्ष इति । तस्मादुक्त पुरुषार्थहेतुकमिदं सूक्ष्मशरोरं प्रवर्तत इति । निमिननैमित्तिकप्रसङ्गेन निमित्त धर्मादि नैमित्तिकमूर्द्धगमनादि पुरस्तादेव वक्ष्यामः प्रसङ्कन प्रसक्त्या प्रकृतेः प्रधानस्य विभुत्वयोगाद्यथा राजा खराष्ट्र विभुत्वाद्यद्यदिच्छति तत्तत् करोतीति तथा प्रकृतेः सर्वत्र For Private and Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59