Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। अहः शब्दोऽध्ययनं दुःखविघातास्वयः सुहृत्याप्तिः । मोचो भविष्यतीति किं तत्त्वाभ्यासेनेत्यषा कालाख्या तुष्टिस्तस्य नास्ति मोक्ष इति। तथा भाग्याख्या भाग्येनैव मोक्षो भविष्यतीति भाग्याख्या। चतुर्दा तुष्टिरिति। वाह्याविषयोपरमाञ्च पञ्च। वाद्यास्तुष्टयः पञ्च विषयोपरमात् शब्दस्पर्शरूपरसगन्धेभ्य उपरतोऽर्जनरक्षणक्षयसङ्गहिंसादर्शनात् । वृद्धिनिमित्तं पाशपाल्यबाणिज्यप्रतिग्रहसेवाः कार्या एतदर्जनं दुःखमर्जितानां रक्षणे दुःखमुपभोगात् क्षीयत इति क्षयदु:खम्। तथा विषयोपभोगसङ्ग कृते नास्तीन्द्रियाणामुपशम इति सङ्गदोषः । तथा न अनुपहत्य भूतान्य पभोग इत्येष हिसादोषः। एवमजनादि दोषदर्शनात् पञ्चविषयोपरमात् पञ्च तुष्टयः। एवमाध्यात्मिकवाह्यभेदानव तुष्टयस्तासां. नामानि शास्त्रान्तरे प्रोक्तानि । अम्भः सलिलं मघो वृष्टिः मतमो पारं सुनेत्र नारीकमनुत्तमाम्भसिकमिति। आसां तुष्टौनां विपरीतशतिभेदाद बुद्धिबधाः भवन्ति । तद्यथा अनम्भोऽसलिलमनाघ इत्यादिवैरीत्याद बुद्धिबधा इति। सिद्धिरुच्यते ॥५०॥ हो यथा कश्चिनित्यमूहते किमिह सत्य किं परं किं नैश्रेयसं किं कृतार्थः स्यामिति चिन्तयतो ज्ञानमुत्पद्यते प्रधानादन्य एव पुरुन इत्यन्या बुदिरन्योऽहङ्कारोऽन्यानि तन्मात्राणौन्द्रियाणि पञ्चमहाभूतानौत्येवं तत्त्वज्ञानमुत्पद्यते येन मोक्षो भवति एषा ऊहाख्या प्रथमा सिद्धिः। तथा पाब्दज्ञानात् प्रधानपुरुषब डाहङ्कारतन्मात्रेन्द्रियपञ्चमहाभूतविषयं ज्ञानं भवति ततो मोक्ष इत्येषा शब्दाख्या सिद्धिः । अध्ययनादादिशास्त्राध्ययनात् पञ्चविंशतितत्त्वज्ञानं प्राप्य For Private and Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59