Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यकारिका।
रूपैः सप्तभिरेव बधात्यात्मानमात्मना प्रकृतिः। सैव च पुरुषार्थ प्रति विमोचयत्येकरूपेण ॥६॥ एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् । अविपर्ययादिशई केवलमुत्पद्यते ज्ञानम् ॥६४५
मुच्यते संसरति चेति । अथ मुक्त एव स्वभावात् स सवंगतच कथं संसरत्यप्राप्तप्रापणार्थ संसरणमिति तेन पुरुषो वध्यते पुरुषो मुच्यते संसरति व्यपदिश्यते येन संसारित्वं न विद्यते सत्वपुरुषान्तनानात् तत्त्व पुरुषस्याभिव्यज्यते । तदभिव्यक्ती केवल: शुद्धो मुक्तः स्वरूपप्रतिष्ठः पुरुष इति । अत्र यदि पुरुषस्य बन्धो नास्ति ततो मोक्षोऽपि नास्ति। अत्रोचते प्रकृतिरेवात्मानं बध्नाति मोचयति च यत्र सूक्ष्मशरीरं तम्मा. त्रक विविधकरणोपेतं तत् त्रिविधेन बन्धेन वध्यते । उक्तञ्च । प्राकृतेन च बन्धेन तथा वैकारिकेण च । दाक्षिणेन तृतीयेन बडो नान्येन मुच्यते। तत् सूक्ष्मं शरीरं धर्माधर्मसंयुक्तम् । प्रकृतिथ बध्यते प्रकृतिश्च मुच्यते संसरतीति कथं तदुचते॥२॥
रूपैः सप्तभिरेवैतानि सप्त प्रोच्यन्ते धर्मो वैराग्यमैश्वर्यमधर्मोऽज्ञानमवैराग्यमनैश्वयमेतानि प्रकृतेः सप्त रूपाणि तैरात्मानं खं बध्नाति प्रकतिरात्मानं खमेव सैव प्रकृति: पुरुषस्यार्थः पुरुषार्थः कर्त्तव्य इति विमोचयत्यात्मानमेकरूपेण जानेन । कथं तज्ज्ञानमुत्पद्यते ॥ ६३ ॥
एवमुक्तोन क्रमेण पञ्चविंशतितत्वालोचनाभ्यासादियं प्रकतिरयं पुरुष एतानि पञ्चतन्मात्रेन्द्रियमहाभूतानौति पुरुषस्य ज्ञानमुत्पद्यते नास्ति नाहमेव भवामि न मे मम
For Private and Personal Use Only

Page Navigation
1 ... 53 54 55 56 57 58 59