Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। ३१ अन्तःकरणं विविध दशधा वाह्यं त्रयस्य विषयाख्यं साम्प्रतकालं वाह्यं विकालमाभ्यन्तरं करणम् ॥३३ न्द्रियाणि। कतिविधं कार्य तस्योत तदुच्यते। कायं च तस्य दशधा तस्य करणस्य कार्य कर्त्तव्यमिति दशधा दशप्रकारं शब्दस्पर्शरूपरसगन्धाख्य वचनादानविहरणोत्सर्गानन्दाख्यमेतद्दशविधं कार्य बुद्धीन्द्रियैः प्रकाशित कर्मेन्द्रियाण्याहरन्ति धारयन्ति चेति ॥ ३२ ॥ ____ अन्तःकरणमिति बुद्धाहकारमनांसि त्रिविधं महदादिभेदात्। दशधा वाह्यं च बुधौन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च दशविधमेतत् करणं वाह्यं तत्र यस्यान्तःकरणस्य विषयाख्य बुद्दाहङ्कारमनसां भोग्य साम्प्रतकालं थोत्रं वर्तमानमेव शब्द शृणोति नातीतं न च भविष्यन्त चक्षुरपि वत्त मानं रूपं पश्यति नातीतं नानागतं त्वग्वर्तमानं स्पशं जिह्वा वर्तमानं रसं नासिका वर्तमानं गन्धं नातीतानागतं चेति । एवं कर्मेन्द्रियाणि वाग्वर्तमान शब्दमुच्चारयति नातीतं नानागतं पाणी वर्तमानं घटमाददाते नातीतमनागतं च पादौ वर्तमानं पन्यानं विहरतो नातीतं नाप्यनागतं पायूपस्थौ च वर्तमानावुत्सर्गानन्दौ कुरुतो नातीतौ नानागती। एवं वाह्यं करणं साम्प्रतकालमुक्त' त्रिकालमाभ्यन्तरं करणं बुद्दाहङ्कारमनांसि त्रिकालविषयाणि बुद्धिवर्तमानं घटं वुध्यत अतीतमनागतं चेति। अहङ्कारो वर्तमानेऽभिमानं करोत्यतोतेऽनागते च। तथा मनो वर्तमाने सङ्कल्पं कुरुत अतीते. ऽनागते च एवं विकालमाभ्यन्तरं करणमिति। इदानौमि. न्द्रियाणि कति सविशेषं विषयं गृह्णन्ति । कानि निर्विशेषमिति तदुच्यते ॥ ३३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59