Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सांख्यकारिका ।
२८
युगपच्चतुष्टयस्य तु दृत्तिः क्रमशश्च तस्य निर्दिष्टा । दृष्टं तथाप्यदृष्टं त्रयस्य तत्पूर्विका दृत्तिः ॥ ३० ॥
तथाऽपन
नामात्मलाभ इति । प्राणोऽपि पञ्जरशकुनिवत् सर्वस्य चलनं करोतीति । प्राणनात् प्राण इत्य ुच्यते । यनादपानस्तत्र यत् स्यन्दनं तदपि सामान्यवृत्तिरिन्द्रियस्य । तथा समानो मध्यदेशवर्त्ती य श्रहारादिनयनासमं नयनात् समानो वायुस्तत्र यत् स्यन्दनं तत् सामान्यकरणवृत्ति । तथा ऊर्द्वारोहणादुत्कर्षादुत्रयनाद्दा उदानो नाभिदेशमस्तकान्तगौचरस्तत्रोदाने यत् स्यन्दनं तत् सर्वेन्द्रियाणां सामान्या वृत्तिः । किञ्च शरीरव्याप्तिरभ्यन्तरविभागश्च येन क्रियतेऽसौ शरीराव्याप्याकाशवद्यानस्तत्र यत् स्यन्दनं तत् करणजालस्य सामान्या वृत्तिरिति । एवमेते पञ्च वायवः सामान्यकरणहवृत्तिरिति व्याख्याता त्रयोदशविधस्यापि करणसामान्या वृत्तिरित्यर्थः ॥ २८ ॥
युगपञ्चतुष्टयस्य बुह्यहङ्कारमनसामेकै केन्द्रिय सम्बन्धे सति चतुष्टयं भवति चतुष्टयस्य दृष्ट प्रतिविषयाध्यवसाये युगपदृत्तिर्बुडाहङ्कारमनश्चक्षूंषि युगपदेककालं रूपं पश्यति स्थाणुरयमिति । बुढाहङ्कारमनोजिह्वा युगपद्रसं गृह्णन्ति । बुधहारमनोघ्राणानि युगपगन्धं गृह्णन्ति । तथा त्वक्श्रोवे अपि । किञ्च क्रमशश्च तस्य निर्दिष्टा तस्येति चतुष्टयस्य क्रमशव वृत्तिर्भवति । यथा कश्चित् पथि गच्छन् दूरादेव दृष्ट्वा स्थाणुरयं पुरुषो वेति संशये सति तत्रोपरूढां तल्लिङ्गं पश्यति शकुनिं वा ततो तस्य मनसा सङ्कल्पिते संशये व्यवच्छेदभूता बुडिर्भवति स्थाणुरयमित्यतोऽहङ्कारश्च निश्चयार्थः स्थाणुरेवेत्य वं बुधरहङ्कारमनचक्षुषां क्रमशो वृत्तिर्दृष्टा यथा रूपे तथा शब्दा
For Private and Personal Use Only

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59