Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ सांख्यकारिका। सात्विकमेतद्रूपं तामसमस्मादिपर्यस्तम् ॥ २३ ॥ शास्त्राणि चेति। आभ्यन्तरं प्रकृतिपुरुषज्ञानमियं प्रकृतिः सत्वरजस्तमसां साम्यावस्थाऽयं पुरुष: सिद्धो निर्गुणो व्यापी चेतन इति। तत्र वाह्य ज्ञानेन लोकपतिर्लोकानुराग इत्यर्थः । आभ्यन्तरेण ज्ञानेन मोक्ष इत्यर्थः। वैराग्यमपि हिविधं वाह्यमाभ्यन्तरं च वाह्यं दृष्टविषयवैतृष्णामजनरक्षण. क्षयसङ्गहिंसादोषदर्शनात् विरक्तस्याभ्यन्तरं प्रधानमप्यत्र स्वप्नेन्द्रजालसदृशमिति विरक्तस्य मोक्षेपसोर्यदुत्पद्यते तदाभ्यन्तरं वैराग्यम् । ऐश्वर्यमौखरभावस्तच्चाष्टगुणमणिमा महिमा मरिमा लघिमा प्राप्तिः प्राकाम्यमौशिव वशित्वं यत्र कामावसायित्व चेति। अणोर्भावोऽणिमा सूक्ष्मो भूत्वा जगति विचरतीति। महिमा महान् भूत्वा विचरतीति। लघिमा मृणालतुलावयवादपि लघुतया पुष्पकेशराग्रेष्वपि तिष्ठति । प्राप्तिरभिमतं वस्तु यत्र तत्रावस्थित: प्राप्नोति। प्राकाम्यं प्रकामतो यदेवेष्यति तदेव विदधाति । ईशित्वं प्रभुतया त्रैलोक्य. मपौष्टे। वशित्व सर्व वशीभवति। यत्र कामावसायित्व ब्रह्मादिस्तम्बपर्यन्त यत्र कामस्तत्रैवास्य खेच्छया स्थानासनविहारानाचरतीति। चत्वार एतानि बुद्धेः सात्विकानि रूपाणि यदा सत्वेन रजस्तमसी पभिभूते तदा पुमान् बुद्धिगुणान् धर्मादीनाप्नोति। किञ्चान्यत् तामसमस्माद विपर्यस्तमस्माधर्मादेविपरौतं तामसं बुद्धिरूपं तत्र धर्माहि. परीतोऽधर्म एवमज्ञानमवैराग्यमनैश्वर्यमिति। एवं सात्विकै. स्तामसैः खरूपैरष्टाङ्गा बुद्धिस्त्रिगुणादव्यक्तादुत्पद्यते। एवं बहिलक्षणमुक्तामहङ्कारलक्षणमुच्यते ॥ २३ : For Private and Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59