Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। २३ अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् । हायुः रूपतन्मात्रात्तेजः रसतन्मात्रादापः गन्धतन्मात्रात् पृथिवी एवं पञ्चभ्यः परमाणुभ्यः पञ्चमहाभूतान्यु त्पद्यन्ते । यदुक्तं व्यक्ताव्यक्त जविज्ञानान्मोक्ष इति तत्र महदादि भूतान्त वयो. विंशतिभेदं व्याख्यातमव्यक्तमपि भेदानां परिमाणादित्या. दिना व्याख्यातं पुरुषोऽपि सङ्घातपरार्थत्वादित्यादिभिहेतुभिर्व्याख्यातः। एवमेतानि पञ्चविंशतितत्त्वानि यस्तैलोक्यं व्याप्तं जानाति तस्य भावोऽस्तित्वं तत्त्वं यथोक्तम् । पञ्चविंशतितत्त्वक्षो यत्र तत्वाश्रमे रतः। जटी मुण्डौ शिखी वापि मुच्यते नात्र संशयः ॥ तानि यथा प्रकृतिः पुरुषो बुद्धिरहङ्कारः पञ्चतन्मात्रा एकादशेन्द्रियाणि पञ्चमहाभूतानि इत्येतानि पञ्चविंशति तत्त्वानि । तत्रोतं प्रकृतेर्महानुत्पद्यते तस्य महतः किं लक्षणमित्येतदाह ॥ २२ ॥ ____अध्यवसायो बुद्धिलक्षणम्। अध्यवसनमध्यवसायः यथा वोजे भविष्यत्तिकोऽथरस्तवदध्यवसायोऽयं घटोऽयं पट इत्येवम् अध्यवस्यति या सा बुद्धिरिति लक्ष्यते सा च बुद्धिर ष्टाङ्गिका सात्विकतामसरूपभेदात् तत्र बुद्धेः सात्विकं रूपं चतुर्विधं भवति धर्मो ज्ञानं वैराग्यमैखयं चेति । तत्र धर्मो नाम दयादानयमनियमलक्षणस्तत्र यमा नियमाश्च पात. जलेऽभिहिता अहिंसासल्यास्तेयब्रह्मचर्यापरिग्रहा यमा: शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधा नियमाः । ज्ञानं प्रकाशोsवगमो भानमिति पर्यायास्तञ्च हिविधं वाह्यमाभ्यन्तरं चेति । तत्र वाह्यं नाम वेदाः शिक्षाकल्प व्याकरणनिरुक्तच्छन्दोज्योतिषाख्यषडङ्गसहिताः पुराणानि न्यायमीमांसाधर्म For Private and Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59