Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२२
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सांख्यकारिका ।
प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोड़शकः । तस्मादपि षोड़शकात्पञ्चभ्यः पञ्चभूतानि ॥ २२ ॥ याति पङ्गुच्चान्धस्कन्धारूढ़ः । एवं पुरुषे दर्शनशक्तिरस्ति पङ्गवत्र क्रियाप्रधाने क्रियाशक्तिरस्त्यन्धवन्न दर्शनशक्तिः । यथा वानयोः पङ्गन्धयोः कृतार्थयोर्विभागो भविष्यतीप्सितस्थानप्राप्तयोरेवं प्रधानमपि पुरुषस्य मोक्षं कृत्वा निवर्तते पुरुषोऽपि प्रधानं दृष्ट्वा कैवल्यं गच्छति तयोः कृतार्थयोर्विभागो भवि ष्यति । किञ्चान्यत् तत्कृतः सर्गस्तेन संयोगेन कृतस्तत्कृतः सर्गः सृष्टिः । यथा स्त्रीपुरुषसंयोगात् सुतोत्पत्तिस्तथा प्रधानपुरुषसंयोगात् सर्गस्योत्पत्तिः । इदानीं सर्वविभागदर्शनार्थमाह ॥ २१ ॥
प्रकृतिः प्रधानं ब्रह्म अव्यक्त बहुधानकं मायेति पर्य्यायाः । अलिङ्गस्य प्रकृतेः सकाशान्महानुत्पद्यते महान् बुद्धिरासुरी मतिः ख्यातिर्ज्ञानं प्रज्ञापय्र्यायैरुत्पद्यते तस्माच्च महतोऽहङ्कार उत्पद्यतेऽहङ्कारो भूतादिवैक्कतस्तै जसोऽभिमान इति पर्य्यायाः तस्माद्रणश्च षोड़शकः तस्मादहङ्काराच्छोड़शकः षोड़शस्त्ररूपेण गण उत्पद्यते । स यथा । पञ्चतमात्राणि शब्दताचं स्पर्शतमात्र रूपतन्मात्र रसतमात्र गन्धतन्मात्रमिति । तन्मात्रसूक्ष्मपर्यायवाच्चानि । तत एकादशेन्द्रियाणि श्रोत्र त्वक् चक्षुषौ जिह्वा घ्राणमिति पञ्च बुद्धीन्द्रियाणि । वाक्पाणिपादपायूपस्था : पञ्चकर्मेन्द्रियाण्युभयात्मकमेकादशं मन एषः षोड़शको गणोऽहङ्कारादुत्पद्यते । किञ्च पञ्चभ्यः पञ्चभूतानि तस्मा च्छोड़शकाद्गणात् पञ्चभ्यस्तन्मात्रेभ्यः सकाशात् पञ्च वै महाभूतान्यु त्पद्यन्ते । यदुक्त शब्दतन्मात्रादाकाशं स्पर्शतन्मात्रा
For Private and Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59