Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ सांख्यकारिका। अन्योऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः १२ सत्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलञ्च रजः । गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥१३॥ यदा तमस्तदा सत्वरजसो विषादस्थित्यात्मकेन इति। तथाऽन्योऽन्याश्रयाश्च हाणुकवत् गुणाः । अन्योऽन्यजननाः यथा मृत्पिण्डो घटं जनयति। तथाऽन्योऽन्यमिथुनाश्च यथा स्त्रीपंसौ अन्योऽन्यमिथुनौ तथा गुणाः। उक्तं च अन्योन्यमिथनाः सर्वे सर्वे सर्वत्रगामिनः । रजसो मिथुनं सत्व सत्वस्य मिथुनं रजः ॥ तमसश्चापि मिथुने ते सत्वरजसी उभे। उभयोः सत्वरजसोमिथुनं तम उच्यते । नैषामादिः सम्प्रयोगो वियोगो वोपलभ्यते ॥ परस्परसहाया इत्यर्थः। अन्योऽन्यहत्तयश्च परस्परं वर्तन्ते गुणा: गुणेषु वर्तन्त इति वचनात् । यथा सुरूपा सुशीला स्त्री सर्वसुखहेतुः सपत्नीनां सैव दुःखहेतुः सैव रागिणां मोहं जनयति एव सत्वं रजस्तमसोवृत्तिहेतुर्यथा राजा सदोद्युक्तः प्रजापालने दुष्टनिग्रहे शिष्टानां सुखमुत्पादयति दुष्टानां दुःख मोहं च एवं रजःसत्वतमसोहत्ति जनयति। तथा तमः स्वरूपेणावरणात्मकेन सत्वरजसो त्ति जनयति यथा मेघाः खमात्य जगतः सुखमुत्पादयन्ति ते दृष्ट्या कर्षकाणां कर्षणोद्योगं जनयन्ति विरहिणां मोहमेवमन्योऽन्य. वृत्तयो गुणाः । किञ्चान्यत् ॥ १२ ॥ __ सत्वं लघु प्रकाशकं च यदा सत्वमुत्कटं भवति तदा लघून्यङ्गानि बुद्धिप्रकाशश्च प्रसन्नतेन्द्रियाणां भवति। उपष्टम्भक चलं च रजः उपष्टभ्नातीत्युपष्टम्भकमुद्योतकं यथा वषो वृष For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59