Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। कारणमस्त्यव्यक्त प्रवर्त्तते त्रिगुणतः समुदयाच्च । परिणामतः सलिलवत्प्रतिप्रतिगुणाश्रयविशेषात्१६ व्यक्तिः । विश्वरूपस्य भावो वैश्वरूपं तस्याविभागादस्ति प्रधानं यस्मात् त्रैलोक्यस्य पञ्चानां पृथिव्यादीनां महाभूतानां परस्परं विभागो नास्ति महाभूतेष्वन्तभूतास्त्रयो लोका इति पृथिव्यापस्तेजो वायुराकाशमिति एतानि पञ्च महाभूतानि प्रलयकाले सृष्टिक्रमेणैवाविभागं यान्ति तन्मात्रषु परिणामिषु तन्मात्राण्येकादशेन्द्रियाणि चाहङ्कार अहङ्कारो बुद्धौ बुद्धिः प्रधाने एवं त्रयो लोका: प्रलयकाले प्रकतावविभागं गच्छन्ति तस्मादविभागात् क्षीरदधिवद् व्यक्ताव्यक्तयोरस्त्यव्यक्त कारणम्। अतश्च ॥ १५ ॥ __ अव्यक्त प्रख्यातं कारणमस्ति यस्मान्महदादिलिङ्गं प्रवतते। त्रिगुणत: त्रिगुणात् सत्वरजस्तमोगुणा यस्मिन् तत् त्रिगुणं तत् किमुक्त भवति सत्वरजस्तमसां साम्यावस्था प्रधानम्। तथा समुदयात् यथा गङ्गास्रोतांसि त्रीणि रुद्र. मूर्धनि पतितानि एक श्रोतो जनयन्ति एव त्रिगुणमव्यतमेकं व्यक्त जनयति तथा वा तन्तवः समुदिताः पटं जनयन्ति एवमव्यक्त गुणसमुदयान्महदादि जनयतीति त्रिगुणतः समु. दयाञ्च व्यक्तं जगत् प्रवर्तते। यस्मादेकस्मात् प्रधानाद व्यक्त तस्मादेकरूपेण भवितव्यम् । नैष दोषः परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषादेकस्मात् प्रधानात् वयो लोकाः समुत्पत्रास्तुल्यभावा न भवन्ति देवाः सुखेन युना मनुष्या टुःखेन तिर्यञ्चो मोहेन एकस्मात् प्रधानात् प्रवृत्त व्यक्त प्रतिप्रतिगुणाश्रयविशेषात् परिणामतः सलिलवद्भवति । प्रति. प्रतीति वीसा। गुणानामाश्रयो गुणाश्रयस्तविशेषस्तं गुणा; For Private and Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59