Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यकारिका। जननमरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्ध वैगुण्यविपर्ययाच्चैव ॥ १८॥
स्तथा पुमान्। अधिष्ठानाद यथेह लङ्घनप्लवनधावनसमथरखै युक्तो रथः सारथिनाऽधिष्ठित: प्रवर्तते तथात्माऽधिष्ठानाच्छरोरमिति। तथाचोक्त षष्ठीतन्ले पुरुषाधिष्ठितं प्रधानं प्रव. तते। अतोऽस्यात्माभोतत्वात्। यथा मधुराम्नलवणकटु तितकषायषड्रसोपहंहितस्य संयुक्तस्यानस्य साध्यते एवं महदादिलिङ्गस्य भोक्त त्वाभावादस्ति स आत्मा यस्येदं भोग्यं शरीरमिति। इतश्च कैवल्यार्थं प्रवृत्तश्च केवलस्य भावः कैवल्य तबिमित्त या च प्रवृत्तिस्तस्याः खकैवल्यार्थ प्रवृत्तः सकाशादनुमोयते अस्त्यात्मेति यतो सर्वो विहानविहांश्च संसारसन्तानक्षयमिच्छति। एवमेभिर्हेतुभिरस्त्यात्मा शरीराद् व्यतिरिक्तः। अथ सः किमेकः सर्वशरीरेऽधिष्ठाता मणिरसनात्मकसूत्रवत् आहोखिद् बहव आत्मनः प्रतिशरीरमधिष्ठातार इत्यत्रोच्यते ॥ १०॥
जन्म च मरणञ्च करणानि च जन्ममरणकरणानि तेषां प्रतिनियमात् प्रत्ये कनियमादित्यर्थः । यद्येक एव आत्मा स्यात्तत एकस्य जन्मनि सर्व एव जायेरन् एकस्य मरणे सर्वेऽपि निये. रन् एकस्य करणवैकल्ये वाधिUन्धत्वमूकत्वकुणित्वखञ्जत्वलक्षणे सर्वेऽपि वधिरान्धकुणिखञ्जाः स्युन चैवं भवति तस्माज्जन्ममरणकरणानां प्रतिनियमात् पुरुषबहुत्वं सिद्धम्। इतवायुगपत् प्रवृत्तेश्च युगपदेककालं न युगपदयुगपत् प्रवर्तनं यस्मादयुगपद्धर्मादिषु प्रवृत्तिदृश्यते एके धर्म प्रहत्ता अन्येऽधर्मे वैराग्येऽन्ये जामेऽन्ये प्रहत्ताः तस्मादयुगपत् प्रवृत्तेश्च बहव
For Private and Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59