Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ सांख्यकारिका । भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्य्यविभागादविभागाद्वैश्वरूपस्य ॥१५॥ त्येतन्मिथ्या लोके यनोपलभ्यते तन्त्रास्ति एवं प्रधानमप्यस्ति किन्तु नोपलभ्यते ॥ १४ ॥ कारणमस्त्य व्यक्तमिति क्रियाकारकसम्बन्धः । भेदानां परिमाणाल्लोके यत्र कर्त्तास्ति तस्य परिमाणं दृष्टं यथा कुलाल: परिमितैर्मृत्पिण्डैः परिमितानेव घटान् करोति एवं महदपि महदादिलिङ्ग परिमितं भेदतः प्रधानकार्य मेका बुद्धिरे कोऽहङ्कारः पञ्चतन्मात्त्राणि एकादशेन्द्रियाणि पञ्चमहाभूतानीत्यवं भेदानां परिमाणादस्ति प्रधानं कारणं यात परिमि तमुत्पादयति । यदि प्रधानं न स्यात्तदा निःपरिमाणमिदं व्यक्तमपि न स्यात् परिमाणाच्च भेदानामस्ति प्रधानं यस्माद व्यक्तमुत्पन्नम् । तथा समन्वयादिह लोके प्रसिद्धिर्दृष्टा यथा व्रतधारिणं वटु दृष्ट्वा समन्वयति नूनमस्य पितरी ब्राह्मणाविति एवमिदं त्रिगुणं महदादिलिङ्गं दृष्ट्वा साधयामोऽस्य यत् कारणं भविष्यतीति श्रतः समन्वयादस्ति प्रधानम् । तथा शक्तितः प्रवृत्तेच इह यो यस्मिन् शक्तः स तस्मिन्नेवार्थे प्रवर्त्तते यथा कुलालो घटस्य करणे समर्थो घटमेव करोति न पटं रथं वा । तथास्ति प्रधानं कारणं कुतः कारणकार्य्य विभागात् । करोतीति कारणम् । क्रियत इति कार्य्यम् । कार्यस्य च विभागो यथा घटो दधिमधूदकपयसां धारणे समर्थो न तथा तत्कारणं मृत्पिण्डः । मृत्पिण्डो वा घटं निष्पादयति न चैवं घटो मृत्पिण्डम् । एवं महदादिलिङ्ग दृष्ट्वानुमीयते । अस्ति विभक्तं तत्कारणं यस्य विभाग इदं व्यक्तमिति । इतश्च अविभागाद वैश्वरूपस्य विश्वं जगत् तस्य रूपं कारण स्थ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59