Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यकारिका। अविवेक्यादिः सिद्धस्वैगुण्यात्तविपर्ययाभावात् । कारणगुणात्मकत्वात् कार्यस्थाव्यक्तमपि सिद्धम् १४ दर्शने उत्कटमुपष्टम्भं करोति एव रजोवृत्तिः। तथा रजश्व चलं दृष्टं रजोवृत्तिश्चलचित्तो भवति। गुरुवरणकमेव तमः यदा तम उत्कटं भवति तदा गुरूण्यङ्गान्यातानौन्द्रियाणि भवन्ति स्वार्थासमर्थानि । अनाह यदि गुणाः परस्परं विरुद्धाः खमतेनैव कमर्थं निष्पादयन्ति तर्हि कथं प्रदीपवञ्चार्थतो वृत्तिः प्रदीपन तुल्यं प्रदीपवदर्थतः साधना वृत्तिरिष्टा यथा प्रदीपः परस्परविरुइतैलाग्निवर्तिसंयोगादर्थप्रकाशतांजनयति एवं सत्वरजस्तमांसि परस्परं विरुद्धान्यर्थं निष्पादयन्ति । अन्तरप्रश्नो भवति त्रिगुणमविवेकिविषय इत्यादि प्रधानं व्यक्त च व्याख्यातं तत्र प्रधानमुपलभ्यमानं महदादि च त्रिगुणमविवेक्यादीति च कथमवगम्यते तत्राह ॥ १३ ॥ ___ योऽयमविवेक्यादिर्गुण: स वैगुण्यान्महदादोऽव्यक्तेनार्य सिध्यति । अत्रोच्यते तहिपर्ययाभावात्तस्य विपर्ययस्तविपर्ययस्तस्याभावस्तहिपयंयाभावस्तस्मात् सिद्धमव्यक्तम्। यथा यत्रैव तन्तवस्तत्रैव पट: अन्य तन्तवोऽन्यः पटो न कुतस्तदिपयंयाभावात् । एवं व्यक्ताव्यक्तसम्पन्नो भवति दूरं प्रधानमासन्नं व्यक्तं यो व्यक्त पश्यति स प्रधानमपि पश्यति तहिपयं. याभावात् । इतश्चाव्यक्त सिद्धं कारणगुणात्मकत्वात् कार्यस्य । लोके यदात्मकं कारणं तदात्मकं कार्यमपि तथा कृष्णेभ्यस्तन्तुभ्यः कृष्ण एव पटो भवति । एवं महदादिलिङ्गमविवेकिविषयः सामान्यमचेतनं प्रसवधर्मि यदात्मकं लिङ्गं तदात्मकमव्यक्तमपि सिद्धम्। वैगुण्यादविवेक्यादिळते सिद्धस्तहिपर्यया. भावात् एवं कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धमिः
For Private and Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59