Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यकारिका।
व्यक्त तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥११॥
प्रसवधर्मान्ता उता एवमेभिरव्यक्त सरूपं यथा व्यक्त तथा प्रधानमिति । तत्र विगुणं व्यक्तमव्यक्तमपि विगुणं यस्यैतन्महदादिकायं त्रिगुणम् । इह यदात्मकं करणं तदात्मकं कार्यमिति यथा कृष्ण तन्तुकत: कृष्ण एव पटो भवति ॥ तथाविवेकि व्यता प्रधानमपि गुणैर्न भिद्यते अन्ये गुणाः अन्यत् प्रधानमेव विवेक्तु न याति तदविवेकि प्रधानम् ॥ तथा विषयो व्यक्त प्रधानमपि सर्वपुरुषविषयभूतत्वात् विषय इति ॥ तथा सामान्य व्यक्तं प्रधानमपि सर्वसाधारणत्वात् ॥ तथाऽचेतनं व्यक्त प्रधानमपि सुखदुःखमोहान्न चेतयतीति कथमनुमौयत इह ह्यचेतनान्मृत्पिण्डादचेतनो घट उत्पद्यते ॥ एवं प्रधानमपि व्याख्यातम् ॥ इदानीं तहिपरीतस्तथा पुमानित्येतद् व्याख्यायते । तहिपरीतस्ताभ्यां व्यक्ताव्य ताभ्यां विपरीतः पुमान् । तद यथा त्रिगुणं व्यक्तमव्यक्त चागुण: पुरुषः। अविवेकि व्यक्तमव्यक्त च विवेकी पुरुषः। तथा विषयो व्यक्तमव्यक्त चाविषयः पुरुषः। तथा सामान्य व्यक्तमव्यक्त चासामान्यः पुरुषः । अचेतनं व्यक्तमव्यक्त च चेतनः पुरुषः सुखदुःखमोहांश्चेतयति सञ्जानौते तस्माचेतनः पुरुष इति । प्रसवधर्मि व्यक्तं प्रधानं चाप्रसवधर्मी पुरुषो नहि किञ्चित् पुरुषात् प्रसूयते। सम्मा. दुक्त तविपरीत: पुमानिति ॥ तदुक्तं तथा च पुमानिति । तत् पूर्वस्यामायायां प्रधानमहेतुमद् यथा व्याख्यातं तथा च पुमान् तद् यथा हेतुमदनित्यमित्यादि व्यक्त तहिपरीतमव्यक्ता तव हेतुमद व्यक्तमहेतुमत् प्रधान तथा च पुमानहेतुमाननुत्पाद्यत्वात्। अनित्यं व्यक्त नित्य प्रधानं तथा च नित्यः पुमान्। अक्रियः सर्वगतत्वादेव । अनेक
For Private and Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59