Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यकारिका।
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रित लिङ्गम्। सावयवं परतन्त्र व्यक्त विपरीतमव्यक्तम् ॥१०॥
प्रधाने महदादिलिङ्गमस्ति तस्मात् सत उत्पत्ति सत इति ॥ प्रकृतिविरूपं सरूपं च यदुक्तं तत् कथमित्य च्यते ॥८॥
व्यक्तं महदादिकायं हेतुमदिति हेतुरस्यास्ति हेतुमत् । उपादानं हेतुः कारखं निमित्तमिति पायाः। व्यक्तस्य प्रधानं हेतुरस्ति अतो हेतुमद व्यक्तं भूतपर्यन्तं हेतुमद बुद्धितत्त्वं प्रधानेन हेतुमानहङ्कारो बुद्ध्या पञ्चतन्मात्राणि एकादशेन्द्रियाणि हेतुमन्यहङ्कारेण। आकाशं शब्द. तन्मात्रेण हेतुमत्। वायुः स्पर्शतन्मात्रेण हेतुमान्। तेजो रूपतन्मात्रेण हेतुमत्। आपो रसतन्मात्रेण हेतुमत्यः । पृथिवी गन्धतन्मात्रेण हेतुमती। एवं भूतपर्यन्त व्यक्त हेतुमत् ॥ किं चान्यदनित्यं यस्मादन्यस्मादुत्पद्यते यथा मृत्पिण्डादुत्पद्यते घटः स चानित्यः ॥ किं चाव्याप्य. सर्वगमित्यर्थः यथा प्रधानपुरुषो सर्वगतो नैव व्यक्तम् ॥ किं चान्यत् सक्रिय संसारकाले संसरति त्रयोदशविधेन करणेन संयुक्त सूक्ष्म शरीरमाश्रित्य संसरति तस्मात् सक्रियम् । किं चान्यदनेक बधिरहङ्कारः पञ्चतन्मात्राण्ये कादशेन्द्रियाणि च पञ्चमहाभूतानि तन्मात्राश्रितानि ॥ किञ्च लिङ्ग लययुक्तं खयकाले पञ्चमहाभूतानि तन्मात्रेषु लोयन्त तान्ये कादशेन्द्रियैः सहाहकार स च बुद्धौ सा च प्रधाने लयं यातीति । तथा सावयवम् अवयवाः शब्दस्पर्शरसरूपगन्धाः तैः सह ॥ किञ्च परतन्त्र नात्मनः प्रभवति यथा प्रधानतन्त्रा बुद्धिः बुडितन्त्रोऽहकारः अहङ्कारतन्त्राणि तन्मावाणौन्द्रियाणि च तन्मावतन्त्राणि पञ्चमहाभूतानि च । एवं परतन्त्र परायत्तं व्याख्यातं व्यक्तम् ।।
For Private and Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59