Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यकारिका।
महदादि तच्च कार्य प्रकृतिविरूपं सरूपं च ॥८॥ असदकरणाटुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभाभाच्च सत्कार्यम् ॥६
महाभूतानि एव तत्कार्यम् । तच कायं प्रकृतिविरूपम् । प्रकृतिः प्रधानं तस्य विरूपं प्रकृतेरसदृशं सरूपं च समानरूपं च यथा लोकेऽपि पितुस्तुल्य इव पुत्त्रो भवत्यतुल्यश्च । येन हेतुना तुल्यमतुल्य तदुपरिष्टाहक्ष्यामः । यदिदं महदादिकार्य तत् किं प्रधाने सदुताहोखिदसदाचार्यविप्रतिपत्तेरयं संशयः । यतोऽत्र सांख्यदर्शने सत्कार्य बौद्धादीनामसत्कार्यम् । यदि सदसन्न भवत्यश्चासत्सन्न भवतीति विप्रतिषेधस्तत्राह ॥ ८ ॥
असदकरणान्न सदसदसतोऽकरणं तस्मात्सत्कार्यम् इह लोकेऽमत्करणं नास्ति यथा सिकताभ्यास्त लोत्पत्तिस्तस्मामतः करणादस्ति प्रामुक्तेः। प्रधाने व्यक्तमतः सत्कार्यम् । किं चान्यदुपादानग्रहणाटुपादानं कारणं तस्य ग्रहणादिह लोके यो येनार्थी स तदुपादानग्रहणं करोति दध्यर्थी क्षीरस्य न तु जलस्य तम्मात् सत्कार्य म्। इतश्च सर्वसम्भवाभावात् सर्वस्य सर्वत्र मम्भवो नास्ति यथा सुवर्णस्य रजतादौ टणपांशुसिकतासु तस्मात् सबसम्भवाभावात् सत्कार्यम्। इतश्च शक्तस्य शक्यकरणात् । इह कुलाल: शक्तो मृद्दण्डचक्रचीवररज्जुनौरा. दिकरणोपकरणं वा शक्यमेव घटं मृत्पिण्डादुत्पादयति सम्मात् सत्कार्यम् । इतथ कारणभावाच्च सत्कार्यम् । कारणं यल्लक्षणं तल्लक्षणमेव कार्य मेव यथा यवेभ्योऽपि यवाः ब्रोहिभ्यो बीयः यदाऽसत्कार्यं स्यात्ततः कोद्रवेभ्यः शालयः स्युन च मन्तीति तस्मात् सत्काय म्। एवं पञ्चभिर्हेतुभिः
For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59