Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सांख्यकारिका ।
तल्लिङ्गलिङ्गिपूर्वक माप्तवतिराप्तवचनन्तु ॥ ५ ॥ सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमाना त् तस्मादपिचासिद्धं परोचमाप्तागमात् सिद्धम् ॥६॥
दृष्टि साधयति पूर्वदृष्टित्वात् । शेषवद् यथा समुद्रादेकं जलपलं लवणमासाद्य शेषस्याप्यस्ति लवणभाव इति । सामान्यतो दृष्टम् । देशान्तराद्देशान्तरं प्राप्तं दृष्टम् । गतिमञ्चन्द्रतारकं चैत्रवत् । यथा चैवनामानं देशान्तराह शान्तरं प्राप्तमवलोक्य गतिमानयमिति तद्दञ्चन्द्रतारकमिति । तथा पुष्पिताम्रदर्शनादन्यत्र पुष्पिताम्रा इति सामान्यतो दृष्टेन साधयति । एतत्सामान्यदृष्टम् ॥ किञ्च तल्लिङ्गलिङ्गिपूर्वकमिति तदनुमानं लिङ्गपूर्वकं यत्र लिङ्गेन लिङ्गी अनुमीयते यथा दण्डेन यतिः । लिङ्गिपूर्वकं च यत्र लिङ्गिना लिङ्गमनुमीयते यथा दृष्ट्वा यतिमस्येदं विदण्डमिति ॥ आप्तश्रुतिराप्तवचनं च । श्राप्ता श्राचाय्या ब्रह्मादयः । श्रुतिर्वेदः । प्राप्तच श्रुति श्राप्तश्रुती तदुक्तमाप्तवचनमिति ॥ एवं विविधं प्रमाणमुक्तं तत्र केन प्रमाणेन किं साध्यमुच्यते ॥ ५ ॥
सामान्यतो दृष्टादनुमानादतीन्द्रियाणामिन्द्रियाण्यतीत्य वर्त्तमानानां सिद्धिः प्रधानपुरुषावतीन्द्रियौ सामान्यतो दृष्टेनानुमानेन साध्येते यस्मान्महदादिलिङ्गं त्रिगुणम् । यस्येदं त्रिगुणं कार्यं तत् प्रधानमिति । यतश्चाचेतनं चेतनमिवाभाति अतोऽन्योऽधिष्ठाता पुरुष इति । व्यक्त प्रत्यक्ष साध्यम् । तस्मादपि चासि परोक्षमाप्तागमात् सिद्धं यथेन्द्रो देवराजः उत्तराः कुरवः स्वर्गेऽशरस इति परोक्षमाप्तवचनात् सिद्धम् ॥ अत्र कचिदात्र प्रधानः पुरुषो वा नोपलभ्यते यच नोपलभ्यते
For Private and Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59