Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका । दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् । पुरुषः ॥ एवमेषां व्यक्ताव्यक्तज्ञानां त्रयाणां पदार्थानां कैः कियद्भिः प्रमाणैः केन कस्य वा प्रमाणेन सिद्धिर्भवति । इह लोके प्रमेयवस्तु प्रमाणेन साध्यते यथा प्रस्थादिभिर्त्रीयस्तु लया चन्दनादि । तस्मात् प्रमाणमभिधेयम् ॥ ३ ॥ ง दृष्टं यथा श्रोत्र' त्वक् चचुर्जिहा प्राणमिति पञ्च बुद्दीन्द्रि याणि शब्दस्पर्शरूपरसगन्धा एषां पञ्चानां पञ्चैव विषया यथासंख्य ं शब्दं श्रोत्र ं गृह्णाति त्वक् स्पर्श, चतू रूपं, जिहा रसं, घ्राणं गन्धमिति । एतद् दृष्टमित्य ुच्यते प्रमाणम् । प्रत्यवेणानुमानेन वा योऽर्थो न गृह्यते स श्राप्तवचनादु ग्राह्यः । यथेन्द्रो देवराजः उत्तराः कुरवः स्वर्गेऽमरस इत्यादि । प्रत्य चानुमानाग्राह्यमथाप्तवचनाद् गृह्यते । अपिचोक्तम् । श्रागमो ह्याप्तवचनमाप्तं दोषचयाद्दिदुः । क्षौणदोषोऽनृतं वाक्यं न ब्रूयात्वसम्भवात् ॥ स्वकर्मण्यभियुक्तो यः सङ्गद्वेषविवर्जितः । पूजितस्तद्दिधैर्नित्यमाप्तो ज्ञ ेयः स तादृशः ॥ एतेषु प्रमाणेषु सर्वप्रमाणानि सिद्धानि भवन्ति । षट् प्रमायानि जैमिनिः । अथ कानि तानि प्रमाणानि । अर्थापत्ति: सम्भवः अभावः प्रतिभा ऐतिह्यम् उपमानं चेति षट् प्रमायानि । तत्रार्थापत्तिद्विविधा दृष्टा श्रुता च । तत्र दृष्टा । एकस्मिन् पक्षे आत्मभावो गृहीतश्चेदन्यस्मिन्नप्यात्मभावो गृह्यत एव। श्रुता यथा । दिवा देवदत्तो न भुङ्क्ते अथ च पोनो दृश्यते श्रतोऽवगम्यते रात्रौ भुङ्क्ते इति ॥ सम्भवो यथा । प्रस्थ इत्युक्ते चत्वारः कुड़वा: सम्भाव्यन्ते । अभावो नाम प्रांगितरेतरात्यन्त सर्वाभावलक्षणः । प्रामभावो यथा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59