Book Title: Sankhyakarika
Author(s): Ishvar Krishna, Goudpada Swami
Publisher: Jivanand Vidyasagar Bhattacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
सांख्यकारिका।
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। षोड़शकस्तु विकारो न प्रकृतिन विकृति: पुरुषः॥३
भूतानि । अव्यक्तं प्रधानम् । ज्ञः पुरुषः । एवमेतानि पञ्चविंशतितत्वानि व्यक्ताव्यक्तनानि कथ्यन्ते एतद्विज्ञानाच्छ्र य इत्युक्तं च पञ्चविंशतितत्त्वज इति ॥ अथ व्यक्ताव्यक्तज्ञानां को विशेष इत्युच्यते ॥ २॥
मूलप्रकृतिः प्रधानम् । प्रकृतिविकृतिसप्तकस्य मूलभूतत्वात् । मूलं च सा प्रकृतिश्च मूलप्रकृतिविकृतिः। अन्यस्मानोत्पद्यते तेन प्रकृतिः कस्यचिहिकारो न भवति । महादाद्या: प्रकृति. विकृतयः सप्त। महाभूतादिति बुद्धिः बुयाद्याः सप्त बुद्धिः १ अहङ्कारः १ पञ्चतन्मात्राणि ५ एतानि सप्त प्रकतिविकतयः । तद् यथा। प्रधानाद् बुद्धिरुत्पद्यते तेन विक्कति: प्रधानस्य विकार इति । सैवाहङ्कारमुत्यादयति अत: प्रकृतिः। अहझारोऽपि बुद्धरुत्पद्यत इति विकृतिः स च पञ्चतन्मात्राण्य : त्यादयतीति प्रकृतिः। तत्र शब्दतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिस्तस्मादाकाशमुत्पद्यत इति प्रकृतिः। तथा स्पर्शतमात्रमहङ्कारादुत्पद्यत इति विकृतिस्तदेवं वायुमुत्पादयतौति प्रकृतिः। गन्धतन्मात्रमहङ्कारादुत्पद्यत इति विकृतिस्तदेवं पृथिवीमुत्पादयतौति प्रकतिः। रूपतन्मात्रम हङ्कारादुत्पद्यत इति विकृतिस्तदेवं तेज उत्पादयतीति प्रकृतिः। रसतन्मात्रमहङ्काराटुत्पद्यत इति विकृतिस्तदेव आप उत्पादयतीति प्रकृतिः । एवं महदाद्याः सप्त प्रकृतयो विकतयश्च ॥ षोड़शकश्च विकारः पञ्चबुद्दीन्द्रियाणि पञ्चकमेंन्द्रियाणि एकादशं मनः पञ्चमहाभूतानि एष षोड़शको गणो विकृतिरेव । विकारो विकृतिः ॥ न प्रकृतिन विकृतिः
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59