Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमकथा।
"जेण भिक्खं बलिं दमि जेण पोसेमि अप्ययं ।
तेण मे कडिया भग्गा जादं सरणदो भयं ॥" एवं सूचिताभिप्रायं राजा न जानाति । इत्याख्यानं कथयित्वा यमदंडो निजगृहं प्रति गतः ।
इतिद्वितीयादिनकथा। तृतीयदिने तथैव राज्ञः पार्श्व आगतो यमदंडः । राज्ञा पृष्टःरे यमदंड, चौरो दृष्टस्त्वया? तेनोक्तम्-हे देव, न कुत्रापि चौरो दृष्टः । राज्ञोक्तम्-कथं महती वेला लग्ना ? तेनोक्तमेकस्मिन् मार्ग एकेन कथा कथिता । सा मया श्रुता । अत एव महती वेला लग्ना । राज्ञोक्तं सो कथा ममाग्रे निरूपणीया । यमदंडेनोक्तं-तथास्तु, तद्यथा-पांचालंदशे वरशक्तिनगरे राजा सुधर्मः परमधार्मिको जैनमतानुसारी । तस्य भार्या जिनमतिः । सापि तथा । रानमंत्री जयदेवः श्रावकमतानुसारी । तस्य भार्या विजया। सापि तथैव । ___ एवं राजा महता सुखेन राज्यं करोति । एकदा स्थानस्थितस्य राज्ञोग्रे केनचिन्निरूपितम्-हे देव, महाबलो वैरी महती पीडां प्रजानां करोति । राज्ञोक्त-तावद्गलगर्ज करोतु यावन्नाहं व्रजामि । पुनरपि राज्ञोक्त-शस्त्रबंधं न कस्यापि करोमि । यस्तु समरे तिष्ठति, निनमंडलस्य कंटकं भवति सोऽवश्यं राज्ञा निराकरणीयः । तथा चोक्तम्
" यः शस्त्रवृत्तिः समरे रिपुः स्यात्
द्यः कंटको वा निजमंडलस्य । अत्राणि तत्रैव नृपाः क्षिपन्ति
न दीनकानीनशुभाशयेषु ॥"
For Private And Personal Use Only

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264