Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 253
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्यां वराटकमात्रमपि न ददामि घोटकयोः का वार्ता । एवं चेन्नाहं समुद्रपारं प्रापयामि भवन्तं । एतद्वचनं श्रुत्वा कमलश्रिया समुद्रदत्तं प्रति भणितंहे कान्त, जलगामिनं तुरंगममारुह्याकाशगामिनं हस्ते धृत्वा समुद्रमुत्तीर्य निजगृहं गम्यते आवाभ्यां । समुद्रदत्तस्तथैव कृत्वा निजगृहं गतः । एकदा गगनगामी तुरंगमः समुद्रदत्तेन सुदण्डराजे दत्तः । तेन राज्ञाऽर्द्ध राज्यं दत्तं । निजपुत्र्यनंगसेना विवाहयितुं दत्ता । ततः समुद्रदत्तः सुखी भूत्वा परत्र साधनं दानं पूजादिकं सर्वमपि करोति । एकदा राज्ञाऽसावश्वः परममित्रसूरदेवश्रेष्ठिहस्ते प्रयत्नाथ दत्तः । उत्तमानां मैत्री आधिपत्येपि न गच्छति । यदुक्तम् " पापं निवारयति योजयते हिताय गुह्यं निगृहति गुणान्प्रकटीकरोति । आपदगतं च न जहाति ददाति काले ___ सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥" स श्रेष्ठी महता यत्नेन पालयति । एकदा सूरदेवश्चिन्तयति असावश्वो नभोगामी । अस्योपयोगस्तीर्थयात्राकरणेन किमर्थं न गृह्यते ? यदुक्तं " यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो ___ यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महा नादीप्ते भक्ने प्रकूपखननं प्रत्युद्यमः कीदृशः ॥" ततो लालयित्वा वारत्रयं करेण ताडयित्वाश्वमारुह्याष्टम्यादि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264