Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 251
________________ Shri Mahavir Jain Aradhana Kendra ९८ www.kobatirth.org तथा चोक्तम् सम्यक्त्वकौमुद्यां Acharya Shri Kailassagarsuri Gyanmandir तथा चोक्तम् — " शक्यो वारायितुं जलेन दहनं छत्रेण सूर्यातपः व्याधिर्भेषजसंग्रहैश्व विविधैर्मंत्र प्रयोगैर्विषम् । नागेन्द्रो निशितांकुशेन समदो दंडेन गोगर्दभौ सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ " अशोकेनोक्त-मसौ मन्दभाग्यः । यो मन्दभाग्यस्तस्य समीचीनं वस्तु नो भातीत्येवं निरूप्य गृहं गतः । सर्वपरिवारलोकं पृष्टवान्केनास्य घोटकभेदो दत्तः समस्तपरिवार लोकेन शपथं कोशपानं कृत्वा स्वप्रतीतिदत्ता । केनचिद् धूर्तेनाशोकस्याग्रे कमलश्रीचेष्टितं निरूपितं सर्वमपि । ततोऽशोकेन स्वमनसि चिन्तितमहो दुष्टेयं । “ जले तैलं खले गुह्यं पात्रदानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः ॥ " अन्यच्च " विचरन्ति कुशीलेषु लंघयन्ति कुलक्रमम् । न स्मरन्ति गुरुं मित्रं पतिं पुत्रं च योषितः ।। सुखदुःखजयपराजयजीवितमरणानि ये विजानन्ति । मुह्यन्ति तेपि नूनं तत्वविदश्वेष्टितो स्त्रीणां । अनृतं साहसं माया मूर्खत्वमतिलोभता । निस्नेहं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः || 22 पुनरप्यशोकेन भणितं - यदि तुरंगमं न ददामि तर्हि प्रतिज्ञाभंगः । महता प्रतिज्ञाभंगो न करणीयः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264