Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 254
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमकथा । पर्वसु श्रीशत्रुञ्जयादिमहातीर्थेषु यात्रां करोति । शाश्वतचैत्येष्वपि च । एवं कालो गच्छति ! यतः-- “ धर्मशास्त्रविनोदेन कालो गच्छति धीमताम् । इतरेषां मनुष्याणां निद्रया कलहेन च ॥" इति पत्नीपतिः मुंखेनावतिष्ठति । अस्मिन्नवसरे केनाप्युक्तं-देव, कौशाम्ब्यां सूरदेवश्रेष्ठिसमीपे नभोगामी तुरंगमोस्ति । स श्रेष्ठी तमारुह्यास्याः पल्या उपरि देवपूजार्थ याति गगनमार्गे । यदुक्तं" अपि स्वल्परं कार्य यद्भवेत्पृथ्वीपतेः । तभवाच्यं सभामध्ये प्रोवाचेदं बृहस्पतिः ॥ चारणैर्वन्दिभिर्नीचर्नापितैालिकैस्तथा।। न मंत्रं मतिमान् कुर्यात् सार्ध भिक्षुभिरेव च ॥" श्रुत्वा पत्नीपतिस्तूष्णीं स्थितः । अन्यदा गगनमार्गे गच्छन्तमश्वं दृष्ट्वा पत्नीपतिनोक्तं दुर्बलोप्यसौ प्रधानगुणकृद् भाति । यदुक्तम् " मणिः शाणोल्लीढः समरविजयी हेतिनिहतः मदक्षीणो नागः शरदि सरितः श्यामपुलिना। कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता ___तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु नराः ॥" तदनन्तरं सुभटानामग्रे निरूपितं-यो वीर एनमश्वमानीय मम समर्पयति तस्यार्द्धराज्यं स्वपुत्रीं च ददामि । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264