Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमकथा।
साहं दुष्टा “ एतैः सर्वैर्यदुक्तमेतेषां च यो जिनधर्म-व्रत निश्चयस्तमहं श्रद्दधामि, नेच्छामि, न रोचे ।
राज्ञोक्तं-केन कारणेन न श्रद्दधासि ? अस्माभिः सर्वैरपि रूपखुरचौरः शूलमारोपितो दृष्टः । तत्कथमसत्यं निरूपयसि ? तयोक्तं-भो राजन् , एतानि सर्वाणि जैनापत्यानि जिनमार्ग विहायान्यमार्ग न जानन्ति । नाहं जैना, न जैनपुत्री । मम मनसि जिनधर्मव्रतप्रभावश्रवणान्महद् वैराग्यं जातम् ।
प्रभातेऽवश्यमेव जिनदीक्षां गृह्णामीति मया प्रतिज्ञातमिति मनो जातमेतैः सर्वैर्जिनमार्गव्रतमाहात्म्यं दृष्टं श्रुतं तथाप्येते मूर्खा उपवासादिना शरीरशोषमुत्पादयन्ति, संसारभोगलम्पटत्वं किमपि न त्यजन्ति । तथा चोक्तम्---
गुणेषु यत्नः क्रियतां किमाटोपैः प्रयोजनम् ।
विक्रियन्ते न घंटाभिर्गावः क्षीरविवर्जिताः ॥" एतद् वचनं श्रुत्वा राजप्रभातिभिः सा बहुधा स्तुता, पूजिता वन्दिता च । तदनन्तरं राज्ञा मंत्रिणा चौरेणार्हद्दासेनान्यैर्बहुभिश्च खस्वपुत्रं स्वस्वपदे संस्थाप्य श्रीगणधरमुनीश्वरसमीपे दीक्षा गृहीता । केचन श्रावका जाताः । केचन भद्रपरिणामिनो जाताः ।
राज्या, मंत्रिभार्ययाऽर्हद्दामसार्याभिश्चान्याभिर्बह्वीभिरुदयश्री प्रवर्तिनीसमीपे दीक्षा गृहीताः । काश्चन श्राविका जाताः । उग्रतपः
For Private And Personal Use Only

Page Navigation
1 ... 260 261 262 263 264