Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
सम्यक्त्व-कौमुद्यां
एतत्सर्वमसत्यं । त्वया तव सप्तभार्याभिश्च यद्ददर्शनं गृहीतं तदहं न श्रद्दधामि, नेच्छामि, न रोचे । एतद्वचनं श्रुत्वा राज्ञा मंत्रिणा चौरेण स्वमनसि चिन्तित-दुर्जनस्य स्वभावोयम् । एवं निरूप्य राजा मंत्री चौरश्च स्वस्वगृहं प्रति गताः।
प्रभातसमये सूर्योदयो जातः । सूर्यायार्घ दत्वा नमस्कारं कृत्वा प्रभातकृत्यानि कृत्वा तदनन्तरं कतिपयजनैः राजामत्रिणौ अर्हदासस्य गृहमागतौ । तदनन्तरं श्रेष्ठिना महानादरः कृतः । तथा चोक्तम्-- " एह्यागच्छ समाश्रयासनमिदं पीतोस्मि ते दर्शनात्
का वार्ता परिदुर्बलोसि च कथं कस्माश्चरं दृश्यसे । एवं ये गृहमागतं प्रणयिनं संभाषयन्त्यादरात्
तेषां वेश्मसु निश्चलेन मनसा गन्तव्यमेव ध्रुवम् ॥ दद्यात् सौम्यां दृशं वाचमक्षुण्णमथासनम् ।
शक्त्या भोजनताम्बूले शत्रावपि गृहागते ॥" तदनन्तरं राज्ञा भीणतं-भो श्रेष्ठिन्, रात्रौ त्वया तव भार्याभिश्व निरूपिताः कथा यया दुष्टया निन्दिता सा दुष्टा तवाग्रे मृत्युकारिणी भविष्यति । अत एव तां ममाग्रे दर्शय, यथा तस्या निग्रहं करिष्यामि। तथा चोक्तम्
" दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः ।
ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥" एतद् राजवचनं श्रुत्वा कुन्दलतयाऽगत्य भाणितं-भो राजन् ,
For Private And Personal Use Only

Page Navigation
1 ... 259 260 261 262 263 264