Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 260
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमकथा। १०७ wwwmmmmmmmmmmmmmmmmmmmm. अहो, अर्थोऽनर्थस्य कारणं भवति । अर्थः कस्यानर्थो न भवति ? भरतः समस्तधनलोभरतोऽनुजवधाथै मनश्चके । एवं निरूप्य झटिति चैत्यालयमागत्य करकमलं मुकुलीकृत्य च वदति राजा-भो श्रेष्ठिन्, क्षमां कुरु । अज्ञानिना यन्मया कृतं तत्सर्व सहनीयं त्वया । श्रेष्ठिनापि यथोचितमुत्तरं दत्तं राज्ञः । एवमस्तु । अत्रान्तरे केनचिदुक्तंभो श्रेष्ठिन् , गतोसि त्वं, परं देवैन रक्षितम् । श्रेष्ठिनोक्तं-तत्तथैव वरं, कालेन क्षयं तु कः को न गतः । तथा च-- "दुर्ग त्रिकूटं परिखा समुद्रो रक्षापरो वा धनदोस्य वित्ते। संजीवनी यस्य मुखे च विद्या स रावणः कालवशाद् विपन्नः ॥" तदनन्तरं श्रेष्ठी सर्वजनैः पूजितः प्रशंसितश्च । राज्ञोक्तंजिनधर्म विहायान्यस्मिन् धर्मेऽतिशयो न दृश्यते । तदनन्तरं स्वस्वपुत्रं स्वस्वपदे संस्थाप्य राज्ञा सुदंडेन, मंत्रिना सुमतिना, सूरदेवेन श्रेष्ठिना, वृषभसेनेनान्यैर्बहुभिश्च जिनदत्तभट्टारकसमीपे दीक्षा गृहीता। केचन श्रावका जाताः । केचन भद्रपरिणामिनश्च जाताः । राश्या विजयया, मंत्रिभार्यया गुणश्रिया, सूरदेवभार्यया गुणवत्याऽन्याभिश्च बह्वीमिश्चानन्तश्चार्यिकासमीपे दीक्षा गृहीता । काश्चन श्राविका जाताः। विद्युल्लतया भणितं-भो स्वामिन्, सूरदेवश्रेष्ठिवतमाहात्म्यं दृष्ट्वा मम दृढं सम्यक्त्वं जातं । एवं श्रुत्वाऽर्हद्दासेन विद्युल्लतां प्रशंस्य भणितं हे प्रिये, तव सम्यक्त्वमहं श्रद्दधामि भक्त्येच्छामि, रोचे । अन्याभिः प्रियतमाभिः प्रशंसिता विद्युल्लता । ततः कुन्दलतयोक्तम् For Private And Personal Use Only

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264