Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 258
________________ Shri Mahavir Jain Aradhana Kendra यदुक्तम् www.kobatirth.org अष्टमकथा । "भ्रष्टं कुलं कूपतडागवापी तथा चोक्तम् Acharya Shri Kailassagarsuri Gyanmandir प्रभृष्टराज्यं शरणागतं च । गां ब्राह्मणं जीर्णसुरालयं च य उद्धरेत्पुण्यचतुर्गणं स्यात् ॥ " एतद्वचनं श्रुत्वा घोटकमारुह्याकाशमार्गेण यावत् कैौशाम्बीनगर्यामागच्छति खगपतिस्तावत् तत्र किं जातं, निद्राविलासिनीं परित्यज्य यावदुत्तिष्ठति तावत् घोटको नष्टः । श्रेष्ठिना भणित - महो, महाप्रपञ्चं कोपि न जानाति । ततः स्वमनासि चिन्तित - महो, ममाशुशुभकर्माद्य समागतमश्वनिमित्तमवश्यं राजा शिरश्छेदं करिष्यति । यत् सुखं दुःखं वा भोक्तव्यं मे भविष्यति । एवं निश्वित्य स्वकुटुम्ब - माकार्य भणितं - मम यद् भाव्यं तद् भवतु तथापि दानपूजादिकं न त्यजनीयं भवद्भिः । “ प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विनिहता विरमन्ति मध्याः । विघ्नैः पुनः पुनरपि प्रतिहन्यमानाःप्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ " १०५ केनचिदुपहासेन भणितं - भो श्रेष्ठिन् तव गुरुः समीचीनः । श्रेष्ठिनोक्तं स मायावी एकस्यापराधेन किं दर्शनहानिजता । स एव स्व पापेन गतः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264