Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
सम्यक्त्व-कौमुद्यां
m
यदुक्तं--
" अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः ।
तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः ॥" सर्वसुभटेष्वधोमुखेषु कुन्तलनामाब्रवीत्-स्वामिन्नहमेनमानयामीति प्रतिज्ञां कृत्वा तत्र तेन सर्व उपाया विलोकिताः, परं श्रेष्ठिगृह एकोप्युपायो न स्फुरति तस्येति विखिन्नो जातः । कियता कालेन जिनधर्मोपायं लब्ध्वा कस्मिंश्चिद् ग्रामे गत्वा मुनिपार्थे कपटतया देववन्दनादिकं शास्त्रं पठित्वा विशिष्टश्राद्धो जातः । कुन्तलो ब्रह्मचारी, सचित्तपरिहारी, प्राशुकाहारी, उभयकालावश्यकारी, भूमिसंस्थारी, चेत्यादिविशेषणयुक्तः षष्ठाष्टमादितपः करोति । तपः प्रभावाल्लोकैः पूज्यते । यदुक्तम्
“ सुजनस्य हि संसर्गनींचोपि गुरुतां व्रजेत् ।
जाह्नवीतीरसम्भूतो जनैरेवपि वन्द्यते ॥" कमेण कौशाम्ब्यामागतः सूरदेवकारितचैत्यालय एत्य कपटाच्चक्षुरोगमिषेण पटकं वध्वा स्थितः । लोकानां पृच्छतां कथयति-मम महतीचक्षुर्व्यथा वर्तते । अहमुपवासं करिष्ये । यदुक्तम्
“ अक्षरोगी कुक्षिरोगी शिरोरोगी व्रणी ज्वरी
एतेषां पञ्चवस्तूनां लंघनं परमौषधम् " सूरदेवेन पूजार्थमागतेन पृष्टो देवलकपार्थे । हे देवलक, क एषः । तेनोक्तं हे श्रेष्ठिन्, नयनव्यथाव्याधितो महातपस्वी ब्रह्मचार्य
For Private And Personal Use Only

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264