SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ सम्यक्त्व-कौमुद्यां m यदुक्तं-- " अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः । तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः ॥" सर्वसुभटेष्वधोमुखेषु कुन्तलनामाब्रवीत्-स्वामिन्नहमेनमानयामीति प्रतिज्ञां कृत्वा तत्र तेन सर्व उपाया विलोकिताः, परं श्रेष्ठिगृह एकोप्युपायो न स्फुरति तस्येति विखिन्नो जातः । कियता कालेन जिनधर्मोपायं लब्ध्वा कस्मिंश्चिद् ग्रामे गत्वा मुनिपार्थे कपटतया देववन्दनादिकं शास्त्रं पठित्वा विशिष्टश्राद्धो जातः । कुन्तलो ब्रह्मचारी, सचित्तपरिहारी, प्राशुकाहारी, उभयकालावश्यकारी, भूमिसंस्थारी, चेत्यादिविशेषणयुक्तः षष्ठाष्टमादितपः करोति । तपः प्रभावाल्लोकैः पूज्यते । यदुक्तम् “ सुजनस्य हि संसर्गनींचोपि गुरुतां व्रजेत् । जाह्नवीतीरसम्भूतो जनैरेवपि वन्द्यते ॥" कमेण कौशाम्ब्यामागतः सूरदेवकारितचैत्यालय एत्य कपटाच्चक्षुरोगमिषेण पटकं वध्वा स्थितः । लोकानां पृच्छतां कथयति-मम महतीचक्षुर्व्यथा वर्तते । अहमुपवासं करिष्ये । यदुक्तम् “ अक्षरोगी कुक्षिरोगी शिरोरोगी व्रणी ज्वरी एतेषां पञ्चवस्तूनां लंघनं परमौषधम् " सूरदेवेन पूजार्थमागतेन पृष्टो देवलकपार्थे । हे देवलक, क एषः । तेनोक्तं हे श्रेष्ठिन्, नयनव्यथाव्याधितो महातपस्वी ब्रह्मचार्य For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy