Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 250
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमकथा । एकदा तया घोटकभेदो दत्तः । अत्र घोटकसमूहमध्ये द्वौ घोटकावतीव दुर्बलौ तिष्ठतः । एको जलगामी द्वितीयो नभोगामी । जलगामी रक्तवर्णो नभोगामी श्वेतवर्णश्च निरूपितं । तस्या उपदेशेन तौ घौटको तथैव ज्ञात्वा समुद्रदत्तो मनस्यतीव संतुष्टो भणति-पुण्यैविना न हि भवन्ति समीहितार्थाः । एकस्मिन् दिने देशान्तरात् क्रयाणकं विक्रीय स्वदेशयोग्यं वस्तु गृहीत्वा च सहायाः समागताः । परस्परं भोजनादिकं दत्तं । तथा चोक्तम् । " ददाति प्रतिगृह्णाति गृह्यमाख्याति पृच्छति । भुक्ते भोजयते चैव षड्डिधं प्रीतिलक्षणम् ॥" एकदाऽशोकसमीपे गत्वा भणति समुद्रदत्तः-प्रभो, वर्षत्रयं जातं । मदीयाः सहायाश्च देशान्तरात् समागताः । मम सेवामूल्यं दीयतां । यथा निजनगरं व्रजामि । अशोकेनोक्तम्-एतेषां घोटकानां मध्ये येन तव मनास प्रतिभासते तथा तत् घोटकद्वयं गृहाण । तेन जलगाम्याकाशगामिनौ गृहीतौ । अशोकेन तौ दृष्ट्वा चिन्ताप्रपन्नेन भणितं-रे समुद्रदत्त, मूर्खाणामग्रेसर, किमपि न जानासि । एतावतीव दुर्बलौ कुरूपिणौ । अद्यप्रातर्वा मरिष्यतः । किमर्थं गृहीतौः । अन्य बहुमूल्ययुक्तं दृष्टिप्रियं स्थूलं च घोटकद्वयं गृहाण । तेनोक्त मेतावेव गृह्णामि, नान्याम्यां प्रयोजनं। समीपस्थैणित-महो, असौ मूतॊ दुराग्रही च । अस्य दत्ता शिक्षा वृथैव भवति । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264