Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 248
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमकथा । तत्र कुटुम्ब्यशोको घोटकव्यवसायी । भार्या वीतशोका । पुत्री कमलश्रीः । स अशोको घोटकरक्षार्थ भृत्यं गवेषयतीति वाती श्रुत्वा समुद्रदत्तोऽशोकपाधै गत्वा भणत्यहं तव घोटकरक्षां करोमि । मम किं यसच्छसि ? तथा चोक्तम् " तावद् गुणा गुरुत्वश्च यावनार्थयते पुमान् । अर्थी चेत् पुरुषो जातः क गुणाः क च गौरवम् ॥” । अशोकेनोक्तं-दिनं प्रति वारद्वयं भोजनं, षण्मासेषु त्रिवलिका, (४) कम्बलश्च पादत्राणं च । त्रिवर्षानन्तरं घोटकसमूहमध्ये ईप्सितं घोटकद्वयं गृहीतव्यमिति । तेनोक्तं-'तथास्तु' इति सविनयं घोटकसमूह रक्षति समुद्रदत्तः। तथा चोक्तम् "प्रणमत्युनतिहेतोर्जीवितहेतोविमुञ्चति प्राणान् । दुःखीयति सुखहेतोः को मूढः सेवकादपरः ।।" स समुद्रदत्तः प्रतिदिनं तस्याः कमलश्रिया मनोज्ञानि फलानि पुष्पाणि कन्दानि च ददाति । तस्या अग्रे हृद्यां स्वकीयां गीतकलां च दर्शयति सः । सा कमलश्रीः कालेन तेन समुद्रदत्तेन स्ववशीकृता । उक्तं च " हरिणानपि वेगशालिनो ननु बन्नन्ति वने वनेचरा । निजगेयगुणेन किं गुणः कुरुते कस्य न कार्यसाधनम् ॥" For Private And Personal Use Only

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264