Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 247
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir wwwwwwwwwwwwwwwwwwwwww सम्यक्त्व-कौमुद्यांwwwwwwwwwwwwwwwwwwwwwwwwwwwww तथा च “ यस्यार्थस्तस्य मित्राणि यस्यार्थस्तस्य बान्धवः । यस्यार्थः स पुमाल्लोके यस्यार्थः स च पंडितः ॥" पुनः-- " इह लोके तु धनिनां परोपि स्वजनायते । स्वजनोपि दरिद्राणां तत्क्षणादुर्जनायते ॥" । इत्येवं पर्यालोच्य चतुर्मिमित्रैः सह मंगलदेशे चलितं । मित्रणित-महो समुद्रदत्त, दूरदेशान्तरे कथं गम्यते ? तेनोक्तंव्यवसायिनामस्माकं किमपि दूरं नास्ति । तथा चोक्तम् "कोतिभारः समर्थानां किं दूरे व्ययसायिनाम् । को विदेशः सुविद्यानां कः परः पियवादिनाम् ॥" पुनः " परदेशभयाद्मीता बह्वालस्याः प्रमादिनः।। स्वदेशे निधनं यान्ति काकाः का पुरुषा मृगाः ॥" पलाशग्रामे गत्वा समुद्रदत्तेन मित्रैः सह भणित-महो, यत्र कुत्रापि निजक्रयाणकं याति तत्र विक्रेतव्यम्, ग्रहणयोग्यं वस्तु गृहीत्वा च त्रिवर्षानन्तरमत्रस्थाने आगन्तव्यमिति स्थानसीमां कृत्वा त्रयोपि निर्गताः । समुद्रदत्तः पथि श्रान्तस्तत्रैव स्थितः । तथा चोकम् " कष्टं खलु मूर्खत्वं कष्टं खलु योवनपि दारिद्र्यम् । कष्टादपि कष्टतरं परगृहासः प्रवासश्च ॥" For Private And Personal Use Only

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264