Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 246
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमकथा । ९३ चौरेण स्वमनसि भणित-योऽविद्यमानं दोषं निरूपयति स नीचगतिभाजनं भवति । तथा चोक्तम्-~ " न सतोन्यगुणान्हिस्यानासतः स्वस्य वर्णयेत् । तथा कुर्वन्प्रजायेत नीचगोत्रान्वितः पुमान् ॥" इति सप्तमी कथा। ८-सम्यक्त्वप्राप्तविद्युल्लता-कथा। पुनरपि विद्युल्लतां प्रत्यर्हद्दासः श्रेष्ठी भणति-भो भाये, स्वसम्यक्त्वग्रहणकारणं कथय । सा कथयति-भरतक्षेत्रे कौशाम्बी नगरी । राजा सुदंडः। राज्ञी विनया। मंत्री सुमतिः। भार्या गुणश्रीः। राजश्रेष्ठी सूरदेवः । भार्या गुणवती । एकदा तेन सूरदेवेन मंगलदेशे गत्वा वाणिज्याथै मनोज्ञा वडवाऽऽनीता । सुदण्डराज्ञे दत्ता । तेन राज्ञा बहुद्रव्यं दत्वा सूरदेवः पूजितः प्रशंसितश्च । एकदा तेन सूरदेवेनागमोक्तविधिना गुणसेनभट्टारकप्रतिलाभतस्तस्मै आहारदानं दत्तं । तद्दानफलेन सूरदेवगृहे देवैः पञ्चाश्चर्य कृतम् । तस्मिन्नेव नगरेऽपरश्रेष्ठी गतद्रव्यः सागरदत्तः । भार्या श्रीदत्ता । पुत्रः समुद्रदत्तः । तेन समुद्रदत्तेन सूरदेवदत्तसत्पात्राहारदानफलातिशयं दृष्ट्वा मनसि चिन्तितम्-अहो, अहं गतद्रव्यः कथं दानं करोमि ? सूरदेवस्य रीत्या द्रव्योपार्जनं कृत्वाऽहमपि दानं करिष्यामि । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264