SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमकथा। "जेण भिक्खं बलिं दमि जेण पोसेमि अप्ययं । तेण मे कडिया भग्गा जादं सरणदो भयं ॥" एवं सूचिताभिप्रायं राजा न जानाति । इत्याख्यानं कथयित्वा यमदंडो निजगृहं प्रति गतः । इतिद्वितीयादिनकथा। तृतीयदिने तथैव राज्ञः पार्श्व आगतो यमदंडः । राज्ञा पृष्टःरे यमदंड, चौरो दृष्टस्त्वया? तेनोक्तम्-हे देव, न कुत्रापि चौरो दृष्टः । राज्ञोक्तम्-कथं महती वेला लग्ना ? तेनोक्तमेकस्मिन् मार्ग एकेन कथा कथिता । सा मया श्रुता । अत एव महती वेला लग्ना । राज्ञोक्तं सो कथा ममाग्रे निरूपणीया । यमदंडेनोक्तं-तथास्तु, तद्यथा-पांचालंदशे वरशक्तिनगरे राजा सुधर्मः परमधार्मिको जैनमतानुसारी । तस्य भार्या जिनमतिः । सापि तथा । रानमंत्री जयदेवः श्रावकमतानुसारी । तस्य भार्या विजया। सापि तथैव । ___ एवं राजा महता सुखेन राज्यं करोति । एकदा स्थानस्थितस्य राज्ञोग्रे केनचिन्निरूपितम्-हे देव, महाबलो वैरी महती पीडां प्रजानां करोति । राज्ञोक्त-तावद्गलगर्ज करोतु यावन्नाहं व्रजामि । पुनरपि राज्ञोक्त-शस्त्रबंधं न कस्यापि करोमि । यस्तु समरे तिष्ठति, निनमंडलस्य कंटकं भवति सोऽवश्यं राज्ञा निराकरणीयः । तथा चोक्तम् " यः शस्त्रवृत्तिः समरे रिपुः स्यात् द्यः कंटको वा निजमंडलस्य । अत्राणि तत्रैव नृपाः क्षिपन्ति न दीनकानीनशुभाशयेषु ॥" For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy