________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्यां
तथा च दुष्टनिग्रहः शिष्टप्रतिपालनो हि राज्ञो धर्मः, न तु मुंडनं, जटाधारणं च । एवं विचार्य निजशत्रुमहाबलस्योपरि गतो राजा । समरे तं नित्वा, सर्वस्वं गृहीत्वा महानन्देन निजनगरमागतो राजा । नगरप्रवेशसमये नगरप्रतोली पतिता । तां दृष्ट्वा "अपशकुन"-मितिज्ञात्वा व्याघुट्य नगरबाह्ये स्थितो राजा । मंत्रिणा झटिति प्रतोली कारिता । द्वितीयदिनेपि तथैव पतिता । एवं तृतीयदिने पतिता।
राजा मंत्रिणं पृष्टवान्-भो मंत्रिन्, कथं प्रतोली स्थिरा भवति ? मंत्रिणोक्तं- हे राजन् , स्वहस्तेन मनुष्यं मारयित्वा तद्रक्तेन प्रतोली सेचनीया । पश्चात् प्रतोली स्थिरा भवति । नान्यथा । कुलाचार्यमतमिदम् । एतद्वचनं श्रुत्वा राजा ब्रूते-यस्मिन्नगरे जीववधो विधीयते, ममानेन नगरेण प्रयोजनं नास्ति । यत्राहं तत्र नगरम् । सुवर्णेन किं क्रियते येन कर्णस्वटयति । पुनरपि राज्ञोक्तं-यः स्वस्य हितं वाञ्छति तेन हिंसा न कर्तव्या । तथा चोक्तम्
" न कर्तव्या स्वयं हिंसा प्रवृत्तां च निवारयेत् ।
जीवितं बलमारोग्यं शश्वद्वाञ्छन्महीपतिः ॥" तथा च
" यो दद्यात् कांचनं मेरुं कृत्स्नां चापि वसुंधराम् ।
एकस्य जीवितं दद्यात्कलेन न समं भवेत् ।।" ततो महाजनेनागत्य भणितं-भो स्वामिन्, मया सर्वमपि क्रियते, भवन्तस्तूष्णीं तिष्ठन्तु । राज्ञोक्तं-प्रजाः पापं कुर्वन्ति यदा, तदा मम षडंशपापं भवति, पुण्यमपि तथा।
For Private And Personal Use Only