________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमकथा।
तथा चोक्तम्
" यथैव पुण्यस्य सुकर्मभाजां
षडशभागी नृपतिः सुवृत्तः । तथैव पापस्य कुकर्मभाजां
षडंशभागी नृपतिः कुवृत्तः ॥" पुनरपि महाजनेनोक्तं-पापभागोऽस्माकं, पुण्यभागो भवतामिति तूष्णीं तिष्ठन्तु । राज्ञोक्तं-तथास्तु । ततो महाजनेन द्रव्यस्योद्राहणिका कृता । तेन द्रव्येण कांचनमयः पुरुषो घटापितः । नानाप्रकारै रत्नैर्विभूषितः । पश्चात् पुरुषं शकटे चटाप्य नगरमध्ये घोषणं दापितम् । यदि कोपि स्वपुत्रं दत्वा माता स्वहस्तेन विषं प्रयच्छति, पिता स्वहस्तेन गलमोटनं करोति तर्हि तस्य कांचनमयः पुरुषः कोटिद्रव्यं च दीयते । तत्रैव नगरे निष्करुणो महादरिद्री वरदत्तो नाम ब्राह्मणोस्ति । तस्य सप्त पुत्राः सन्ति । तस्य वरदत्तस्य भार्या निष्करुणा नाम्नी । तेन द्विजेन स्वभार्या पृष्टा-हे प्रिये, लघुपुत्रमिन्द्रनामानं दत्वेदं द्रव्यं गृह्यते । आवयोः कुशले सति अन्येपि पुत्रा बहवो भविष्यन्ति । तया निष्करुण्या " तथास्तु " इत्येवं भणितम् । ततो वरदत्तेन घोषणं धृत्वा कथितम्-इदं द्रव्यं गृहीत्वा पुत्रो दीयते मया। महाजनेनोक्तम्
" माता यदि विषं दद्यात्पिता विक्रीयते सुतम् ।
राजा हरति सर्वस्वं का तब परिवेदना ॥" यदि मात्रा स्वहस्तेन पुत्रस्य विषं दीयते, पित्रा स्वहस्तेन पुत्रस्य
For Private And Personal Use Only