________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्यां
mmmmm गलमोटनं क्रियते चेत् तर्हि द्रव्यमिदं दीयते समस्तवस्तु च । नान्यथा । वरदत्तेनोक्तं-तथास्तु । तत इन्द्रदत्तेन स्वमनस्युक्तम्अहो, स्वार्थ एव संसारे कोपि. कस्यापि वल्लभो नास्ति, उक्तञ्च" वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः
पुष्पं गन्धगतं त्यजन्ति मधुपा दग्धं बनान्तं मृगाः । निद्रव्यं पुरुषं त्यजन्ति गणिका दुष्टं नृपं सेवकाः ____ सर्वः कार्यवशाज्जनोभिरमते कः कस्य को वल्लभः ॥" अहो वस्तुतो माहात्म्यं पश्य, धननिमित्तमकर्तव्यमपि क्रियते । तथा चोक्तम्-- - " बुभुक्षितः किं न करोति पापं
क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे प्रियदर्शनस्य
न गंगदत्तः पुनरेति कूपम् ॥" इत्यभिधानात् । ततो द्रव्यं गृहीत्वा पुत्रो महाजनस्य समर्पितः वरदत्तेन ।
ततः सालङ्कारं मातृपित्रादिलोकसमूहवेष्टितं हसमानं प्रतोली सम्मुखागतमिन्द्रदत्तं दृष्ट्वा राज्ञा भणितं-रे माणवक, किमर्थ हससि । मरणेन विभेषि ?
तेनोक्तं-हे देव, यावद्भयं नागच्छति ताकद्रेतव्यमागते तु सोढव्यमिति।
तथा चोक्तम्
For Private And Personal Use Only