SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमकया। तावद्भयस्य भेतव्यं यावद्भयमनागतम् । भागतं तु भयं दृष्ट्वा प्रहर्तव्यमशंकितम् ॥" पुनरपीन्द्रदत्तेनोक्तंभो राजन्, पित्रा संतापितः. शिशुातृशरणं गच्छति, राज्ञा संतापितः शिशमहाजनशरणं गच्छति, यत्र माता विषं प्रयच्छति पिता च गलमोटनं करोति । महाजनो द्रव्यं दत्त्वा गृह्णाति, राजा प्रेरको भवति तत्र कस्याग्रे निरूप्यते । तथा चोक्तम्___“मातृपित्रा सुतो दत्तो राजा च शस्त्रवातकः । देवता बलिमिच्छन्ति आक्रोशः किं करिष्यति ॥" अत एव धीरत्वेन मरणमस्तु । एतद्वचनं श्रुत्वा राज्ञोक्तम्अनया प्रतोल्या, अनेन नगरेणापि च मम किमपि प्रयोजनं नास्ति । यत्राहं तत्र नगरमिति। एवं सधैर्य राजानं, माणवकसाहसं च दृष्ट्या नगरदेवताभिः प्रतोली निर्मिता, पञ्चाश्चर्येण माणवकः प्रपूजितश्च । तथा चोक्तम्"उद्यमं साहसं धैर्य बलं बुद्धिः पराक्रमम् । षडेते यस्य विद्यन्ते तस्य देवोपि शक्यते ॥" एवं सूचिताभिप्रायं राजा न जानाति । इत्याख्यानं निरूपयित्वा निजगृहं गतो यमदंडः। इति तृतीयविनकथा। चतुर्थदिन आस्थानस्थितेन राज्ञा तथैव यमदंडः पृष्टः-रे यमदंड, त्वया चौरो दृष्टः ? तेनोक्तं न कुत्रापि दृष्टो मया । राज्ञोक्तं-किमर्थ महती वेला लग्ना ? तेनोक्तम्-एकस्मिन्पथि एकेन हरिणीकथा कथिता। For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy