SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __ सम्यक्त्व-कौमुद्या सा मया श्रुता । अत एव महती वेला लग्ना । राज्ञोक्तं-सा कथा ममामे निरूपणीया । तेनोक्त--तथास्तु । तद्यथा-एकस्मिन्नुद्यानवने तडागतटे काचिद् हरिणी निवसति स्म ।सा स्वबालकैः सह वनस्थलीषु तृणादिभक्षणं कृत्वा तडागेषु पानीयं पीत्वा सुखेन कालं गमयति । तदासन्ननगरस्यारिमर्दनस्य नृपस्य बहवः पुत्राः सन्ति । केनापि व्याधेनैकं मृगशावकं जीर्णवनतो गृहीत्वा एकस्मै कुमाराय समर्पितः । अन्ये कुमारास्तं दृष्ट्वा पश्चात्तैरेकत्र संभूय राज्ञोग्रे कथितम्-अस्माकं मृगशावान् समर्पय । ततो राज्ञा व्याधानाकार्य पृष्ट-भो भो व्याधाः, कस्मिन् वने मृगशावाः प्राप्यन्ते । केनचित्कथितं हे देव, जीर्णोद्याने प्राप्यन्ते । तच्छ्रुत्वा राजा स्वयमेव व्याधवेषं विधाय तत्र गतः । तद्वनं विषमं दृष्ट्वा मृगपोतग्रहणार्थ व्याधेभ्यः कथित,-मेकत्र ज्वलन,-मेकत्र पाशा,-नेकत्र गर्तखननं कुर्वन्तु । इति दृष्ट्वैकन पंडितेनोक्तम् " सव्वजलं विससहिदं सवारणं च कूटसंछण्णं । राया य सयं वाहो तत्थ सिदाणं कुदो वासो।" तथा च " रज्वा दिशः प्रवितताः सलिलं विषेण पांशर्मही हुतभुजाकुलितं वनान्तम् । व्याधाः पदान्यनुसरन्ति गृहीतचापाः : ___कं देशमाश्रयतु डिंभवती कुरंगी ॥" एवं सूचिताभिप्रायं राजा न जानाति । इत्याख्यानं निरूपयित्वा निजमंदिरं गतो यमदंडः। इति चतुर्थदिनकथा। For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy