________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रथमकथा ।
२१
पञ्चमदिन आस्थानस्थितेन राज्ञा तथैव पृष्टः-रे यमदंड, चौरो दृष्टः ? तेनोक्तं - हे देव, न कुत्रापि दृष्टो मया । राज्ञोक्तं- किमर्थ बृहद्वेला खना ? तेनोक्तं- ग्रामाद्वहिरेकेन कथा कथिता । सा मया श्रुता । अत एव महती वेला लग्ना । राज्ञोतं-सा कथा ममाग्रे निरूपणीया । तेनोक्तंतथास्तु । तद्यथा - नेपालदेशे पाटलीपुरी । राजा वसुंधरः । राज्ञी वसुमतिः । स राजों कवित्वविषये बलीयान् । राजमंत्री भारतीभूषणः । भार्या देविका । सोपि मंत्री शीघ्रकवित्वेन लोकमध्ये प्रसिद्धः एकदाऽऽस्थानमध्ये राजकवित्वं मंत्रिणा बहुधा दूषितं । कुपितेन राज्ञ मंत्रिणं बन्धयित्वा गंगाप्रवाहे निक्षिप्तः दैववशाद्वालुकोपरि पतितः । तथा चोक्तम्
Acharya Shri Kailassagarsuri Gyanmandir
“ बने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा ।
सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥ भीमं वनं भवति तस्य पुरं प्रधानं सर्वो जनः सुजनतामुपयाति तस्य । कृत्स्ना च भूर्भवति तन्निधिरत्नपूर्णा यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ "
मंत्रिणोक्तं - कवि कविर्न सहत एतत् सत्यम् । तथा चोक्तम्
" शिष्टाय दुष्टो विरताय कामी निसर्गतो जागरकाय चौरः ।
For Private And Personal Use Only