SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्या धर्मार्थिने कुप्यति पापवृत्तिः सराय भीरुः कवये कविश्च ॥" पुनरपि चोक्तम् " सूपकार कविं वैद्य विमो विमं नटो नटम् । राजा राजानमालोक्य श्वावधस्वरायते ॥" जलमध्यस्थितेन मंत्रिणा पद्यमेकमभाणि-- " जेण बीयाइ रोइति जेण तप्पंति पायपा। तस्स मज्झे मरिस्सामि जादं सरणओ भयं ॥" अधोवहमानं जलं दृष्ट्वैकं पद्यमन्योक्तं पुनरपि भणितम् " शैत्यं नाम गुणस्तवैव तवनु स्वाभाविकी स्वच्छता __किं ब्रूमः शुचितां भवन्ति शुचयः संगेन यस्यापरे । किं वान्यत्पमस्ति ते स्तुतिपदं त्वं जीवितं जीविनां त्वं चेनीचपथेन गच्छसि पयः ! कस्त्वां निरोद्धं क्षमः॥" एतद्वचनं श्रुत्वा ततो राज्ञा मनसि चिन्तितमहो, विरूपं कृतं मया । आश्रितानां गुणदोषचिंता न करणीया सत्पुरुषेण । तथा चोक्तम् " चन्द्रः क्षयी प्रकृतिषकतनुर्जडात्मा दोषाकरः स्फुरत मित्रविपत्तिकाले । मूर्ना तथापि विधृतः परमेश्वरेण न ह्याश्रितेषु महतां गुणदोषचिन्ता ॥" एवं विचार्य स मंत्री जलान्निःसारितः पूनितो मंत्रिपदे स्थापितम्घ । इत्याख्यानं निरूपयित्वा निजगृहं गतो यमदंडः । इति पञ्चमदिनकथा। For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy