SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्यां मूलतो विनष्टं कार्यमित्याभिप्रायं सूचितमपि न जानाति । कुतो दुराग्रहग्रहत्वात् । तथा चोक्तम् " दुराग्रहग्रहग्रस्ते विद्वान्पुंसि करोति किम् । कृष्णपाषाणखण्डस्य मार्दवाय न तोयदः ॥" इत्याख्यानं कथयित्वा यमदंडो निजमंदिरं गतः । इति प्रथमदिनकथा । द्वितीयदिने राज्ञः पार्श्व आगतो यमदंडो राज्ञा पृष्टः-रे यमदंड, चौरो दृष्टस्त्वया ? तेनोक्तं हे महाराज, न मया चौरो दृष्टः । राजोक्तम्-किमर्थं कालातिक्रमः कृतः ? तेनोक्तम् एकस्मिन् मार्ग एकेन कुंभकारेण कथा कथिता । सा मया श्रुता । अत एव कालातिक्रमो जातः । राज्ञोक्तं-सा कथा ममागे निरूपणीया। यमदंडेनोक्तम्-तथास्तु, तद्यथा-अस्मिन्नगरे पाल्हणनामा कुंभकारो निजविज्ञाननिपुणोस्ति । स प्रजापतिराजन्मतो नगरासन्नमृत्खनिसकाशान्मृत्तिकामानीय विविधानि भाण्डानि निर्माय निर्माय विक्रीणाति । कालेन धनवान् जज्ञे । पश्चात्तेन भव्यं गृहं कारायितम् । पुत्रादिसंततिर्विर्वाहिता । सर्वेषां भिक्षुवराणां सत्यां भिक्षां ददाति, याचकानां भोजनादि च । क्रमेण स्वजातिमध्ये महत्तरो जातः । एकदा रासभी सज्जीकृत्य मृत्तिकाथै गतः । तस्य खनि खनतस्तटी निपतिता । तया कटिर्भग्ना । पश्चात्तेन पठितम् For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy