SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमकथा । " वरं बुद्धिर्न सा विद्या विद्याया धीर्गरीयसी 1 बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ॥ 11 तैरुक्तं भो तात, जीवनोपायश्चिन्तनीयः । तेनोक्तं - भो पुत्रा, नष्टे कार्ये क उपायः । तथा चोक्तम् (6 अज्ञानभावादथवा प्रमादा-दुपेक्षणाद्वात्ययभाजि कार्ये । पुंसः प्रयासे विफलः समस्तो गतोदके कः खलु सेतुबन्धः ॥ " पुनरपि तैरुक्तं - भो तात, चित्तं स्वस्थं कृत्वा कश्चिज्जीवनोपायो दर्शनीयः । तथा चोक्तम् " चित्तायत्तं धातुबंधं शरीरं नष्टे चित्ते धातवो यान्ति नाशम् । तस्माच्चित्तं यत्नतो रक्षणीयं स्वस्थे चित्ते धातवः संभवन्ति ॥ " ततो वृद्धेनोक्तं " १३ भो पुत्राः, मृतकवत्तिष्ठन्तु । अन्यथा स पारधी गलमोटनं करिष्यति । प्रभातसमये स पारधी समागतः । पक्षिसमूहं मृतकं ज्ञात्वाऽधो भागे पातिताः सर्वे । तदनन्तरं बृहद्धसेन भणितं - भो पुत्राः सर्वे पलायनं कुर्वन्तु । एवं ज्ञात्वा सर्वैरप्युड्डीनं कृतम् । , पश्चात् सर्वैरपि भणितमहो, वृद्धवचनोपदेशेन जीविता वयम् । तथा चोक्तम् वृद्धवाक्यं सदां कृत्यं प्राज्ञैश्व गुणशालिभिः । पश्य हंसान्बने बद्धान्बुद्धवाक्येन मोचितान् ॥ " For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy