SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्यां "दहिकालं वयं तत्थ, पादपे निरुपद्दथे । मूलादो उच्छिया वल्ली जादं सरणदो भयं ॥" एकस्मिन् वनमध्ये पंकादिदोषरहितं, सहस्रपत्रादि सरोजराजिसहितं, मानससरोस्ति । तत्पाल्युपरि सरलोन्नतवृक्षोस्ति । तस्योपरि बहवो हंसास्तिष्ठन्ति । एकदा वृद्धहंसेन तरुमूले वल्ल्यंकुरो दृष्टः । ततः पुत्रपौत्रादिहितार्थ वृद्धेन भाणतं- हे पुत्रपौत्राः, एनं वृक्षमूल उद्गच्छन्तं वल्ल्यंकुरं चञ्चुप्रहारैस्त्रोटयत । अन्यथा सर्वेषां मरणं भावष्यति । एतद्वचः श्रुत्वा तरुणहंसैर्हसितम् । अहा, वृद्धोयं मरणाद्विभेति । सर्वकालं जीवितुमिच्छति । कस्माद्भयामिह । निजपुत्रपौत्राणामीग्विधं वचनं श्रुत्वा मनसि चिन्तितं तेन-अहो, एते मूर्खाः स्वहितोपदेशे न जानान्त, परन्तु कोपमेव कुन्ति । उक्तञ्च "प्रायः सम्पति कोपाय सन्मार्गस्योपदेशनम् । विलूननासिकस्येव विशुद्धादर्शदर्शनम् ॥" पुनरपि वृद्धहंसेनाऽभाणि-मूखैः सहोदिते सति स्ववचनस्य वैयर्थ्यं स्यात्, फले व्यक्तिर्भविष्यति । इति मनसि निश्चित्य तूष्णी स्थितः । कालान्तरेण वल्ली वृक्षस्योपरि चटिता । एकदा वल्लीमालम्ब्य पारधी वृक्षस्योपरि चटितः । तत्र तेन पाशराशयो मंडिताः। ये हंसा वृक्षाश्रितास्ते रात्रौ पारिधिपाशैर्बद्धाः । तेषां कोलाहलं श्रुत्वा वृद्धहंसेन भणितं-हे पुत्राः, ममोपदेशं न कुर्वन्ति, इदानीं बुद्धिरहितानां भवतां मरणमागतम् । तथा चोक्तम् For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy