________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तद्यथा
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमकथा ।
निरूप्यते । इमं कोलाहलं श्रुत्वा सर्वोपि नागरः समुदायेन समायातः । तस्याग्रे राज्ञा समग्र वृत्तान्तं कथितम् । महाजनेन निरूपितं - हे तात, अस्य सप्त दिनानि दातव्यानि । सप्त दिनानन्तरं वस्तूनि चौरं च न प्रयच्छति चेत्तदा देव, चिन्तितं कार्य श्रीमता । राज्ञा महाजनोक्तं महता कष्टेन प्रतिपन्नम् । तमर्थे सुबद्धं विधाय नागरिकलोको निजधाम जगाम । इतो यमदंडेन राजपुत्रादिसर्वसमाजं मीलयित्वा निरूपितं मया किं क्रियते, ईदृग्विधा व्यवस्था मे समायाता । महाजनेनोक्तं मा भयं कुरु । त्वयि रक्षणायोद्यते सत्यस्मि नगरे चौरव्यापारो न । साम्प्रतं राज्ञो भेदेन चौरव्यापारोस्ति । युवयोरुभयोर्मध्ये यो दुष्टस्तस्य निग्रहं करिष्यामो वयम् । यमदंडेनाक्तं भव्यं भवतु । ततोऽनन्तरं धूर्तवृत्या चौरमवलोकयति । यमदंडः प्रथमदिने राजसभायां गतः । राज्ञे नमस्कारं कृत्वोपविष्टः । नरपतिना पृष्टं -रे यमदंड, त्वया चौरो दृष्टः ? तेनोक्तं - स्वामिन्, मया सर्वत्र चौरगवेषणं कृतं, परं न दृष्टः कुत्रापि । पुना राज्ञोक्तं एतावत्कालपर्यन्तं क्व स्थितं भवता ?
यमदण्डेनोक्तम्
हे देव, एकस्मिन्प्रदेशे कश्चित्कथकः कथां कथयति स्म । सा मया श्रुता । तेन कारणेन महती वेला लग्ना । राज्ञोक्तं-रे यमदंड, त्वया कथं स्वस्य मरणं विस्मर्यते । तां साश्चर्यं कथां कथय । तेनोक्तं - राजन्, दत्ता वधानेनाकर्णय । कथां निरूपयाम्यहम् ।
1
For Private And Personal Use Only